Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं- ९५, [भा. ४३३१]
वस्त्राणि यतीनां प्रयच्छत । ततो गुरुभिरसावुच्यते स्वयमेव त्वमभूनि अम्बराणि देहि यस्तवात्र संयतः 'रोचते' वस्त्रदानयोग्यतया रुचिगोचरीभवति । 'इति' अमुना प्रकारेण 'छन्दित-प्रेषितः ' पूर्वं छन्दितः यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः ततः प्रेषितः मुत्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशः 'र-सोर्ल-शौ' इति मागधमाषालक्षणवशात् ॥ ततश्च
[भा. ४३३२] खमएण आनियाणं, दिज्जंतेगस्स वारणावयणं । गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥
वृ-क्षपकेणानीतानां तेनैव दीयमानानां वस्त्राणम् 'एकस्य' कस्यचिद् लुब्धस्य वारणावचनम्, 'एवममीषां रत्नाधिकानां दीयमानानि मां यावद् न समागमिष्यन्ति' इति बुद्ध्या वस्त्रग्राहकसाधून् 'मा आर्याः ! गृह्णीध्वम्' इत्येवं कोऽपि निवारितवानिति भावः ।
ततः क्षपकः प्राह-किं मदीयानि वस्त्राणि न गृह्यन्ते ? इतरः प्राह-ग्रहणमेव तावत् त्वं न जानीषे । क्षपको ब्रवीत - जानामि । इतरो भणति यद्येवं ततः कीदृशम् ? । क्षपक आह-वन्दित्वा विनयेन पृच्छ येनाहं कथयामि । ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् ।। [भा. ४३३३] तिविहं च होइ गहणं, सच्चित्ताऽचित्त मीसगं चेव । एएसिं नाणत्तं वोच्छामि अहानुपुब्बीए ॥
वृ-त्रिविधं च भवति ग्रहणम्, तद्यथा-सचित्तग्रहणमचित्तग्रहणं मिश्रग्रहणं चेति । एतेषां त्रयाणामपि नानात्वं यथाऽऽनुपूर्व्या वक्ष्यामि ॥
तत्र सच्चित्तग्रहणं तावदाह
४७७
[भा. ४३३४] सच्चित्तं पुन दुविहं, पुरिसाणं चेव तह य इत्थीणं । एक्केकं पि य इत्तो, पंचविहं होइ नायव्वं ॥
वृ- सचित्तग्रहणं पुनर्द्विविधम्, तद्यथा - 'पुरुषाणां च ' आचार्यादीनां 'स्त्रीणां च' प्रवर्त्तिनीप्रभृतीनाम् । एकैकमपि 'इतः' मूलभेदापेक्षया 'पञ्चविधं' वक्ष्यमाणनीत्या पञ्चप्रकारं भवति ज्ञातव्यम् ॥
कुतः पुनस्तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते ? इत्याह
[भा. ४३३५ ] उदगाऽगनि तेनोमे, अद्धाण गिलाण सावय पदुट्ठे । तित्थानुसज्जणाए, अइसेसिगमुद्धरे विहिणा ।।
वृ- उदके वाहकेन आचार्यादयो नेतुमारब्धाः, “अगनि” त्ति महानगरप्रदीपनके वा दाहस्तैषां समुपस्थितः, “तेन” त्ति शरीरस्तेना आचार्यादीन् व्यपरोपयितुमिच्छन्ति, अवमं- दुर्भिक्षं तत्र भक्त-पानलाभाभावात् प्राणसंशयस्तेषामुपतस्थे, अध्वा नाम-छिन्नापातं महदरण्यं तं प्रपन्नानामपान्तराले बुभुक्षा-परिश्रमादिभिरग्रतो गन्तुमशक्नुवतां जीवितं संशयतुलामधिरुढम्, “गिलाण " त्तिशूल - विष - विशुचिकादिकमागाढग्लानत्वमुदपादि, श्चापदाः सिंहव्याघ्रादयस्तैरुपद्रोतुमारब्धोः, प्रद्विष्टः प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति। एतेष्वागाढकारणेषु 'तीर्थानुषजनायै' तीर्थस्याव्यवच्छेदेनानुवर्त्तनाय योऽतिशानी - विशिष्टपात्रभूतः प्रवचनाधारः पुरुषस्तं 'विधिना' वक्ष्यमाणनीत्या समुद्धरेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2015c4e32188f7be4315da9d3f13128f986355781965db810a3f05c14a0611a2.jpg)
Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516