Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 478
________________ ४७५ उद्देशकः ३, मूलं-९५, [भा. ४३२१] 'अश्लाध्यां' निन्दनीयां ग्रह्यामहे ? । किभुक्तं भवति ? -'यदि नामास्मदानीतानां वस्त्राणामेते आगन्तुकादयः स्वामिभावं भजन्ते ततः किमेवं वयं देवद्रोणीवाहकभिक्षुकवद् मुधैव वस्त्राद्यानयनकर्म कार्यामहे ?' इति वस्त्राण्यानेतारश्चिन्तयेषुः । [भा.४३२२] विरिचमाणे अहवा विरिक्के, खोभं विदित्ता बहुगाण तत्थ । ओमेण कारिति गुरु विरेगं, विमज्झिमो जोव तहिं पडू य॥ वृ-एवं विरिच्यमाने' विभज्यमानेऽथवा 'विरिक्ते विभक्ते उपकरणे बहूनामनन्तरोक्तं क्षोभं विदित्वा यस्तत्र 'अवमः' सर्वेषामपि पर्यायलघुः यो वा विमध्यमोऽपि तत्र वस्त्रविभजने 'पटुः' कुशलस्तेन गुरवो विभजनं कारयन्ति । अथ कोऽपि लुब्ध एवमप्यपरितुष्यन् ब्रूयात्-आवलिकया मण्डलिकया वा वस्त्राणि विभज्यन्ताम् ततः को विधिः? इत्याह[भा.४३२३] आवलियाए जतिटुं, तं दाऊणं गुरुण तो सेसं। गेण्हंति कमेणेव उ, उप्परिवाडी न पूयेति॥ वृ-आवलिका नाम-ऋज्वायतश्रण्या वस्त्राणां व्यवस्थापनम्, तथा समभागीकृत्य वस्त्रेषु स्थापितेषु यद् इष्टं वस्त्रं तद् गुरुणां दत्त्वा शेषाणि यथारत्नाधिकं गृह्णन्ति यावदावलिका निष्ठामुपगच्छति। उत्परिपाट्या तु ग्रहणं न पूजयन्ति' न प्रशंसन्ति, तीर्थकरादय इति गम्यते ॥ [भा.४३२४] मंडलियाए विसेसो, गुरुगहिते सेसगा जहावुटुं । भाए समे करेत्ता, गेहंति अनंतर उभओ॥ वृ-मण्डलिकायामप्येवमेव, नवरं तस्यां विशेषोऽयमुपदर्श्यते-पूर्वं गुरुभिर्गृहीते ततः शेषाः 'यथावृद्धं' योयः पर्यायवृद्धस्तदनतिक्रमेण समान् भागान् कृत्वा 'उभयोरपि' आद्यन्तलक्षणयोः पार्श्वयोः 'अनन्तरम्' अव्यवहितं वस्त्राणि गृह्णन्ति। इयमत्र भावना-मण्डलिकया वस्त्रेषु स्थापितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रत्नाधिकः स मण्डलिकयाधुरि स्थापितंवस्त्रंगृह्णाति, अवमरालिकस्तुपर्यन्तस्थापितं-सर्वान्तिकम्, ततोऽपियोऽवमपर्यायः स धुरि स्थापितादनन्तरंगृह्णाति, तदपेक्षया लघुतरः पर्यन्तपार्थादुपान्त्यं गृह्णाति; एवं तावद् गृह्णन्ति यावद् मण्डलिका निष्ठिता भवति ।। एवमपि विभज्यमाने कोऽपि लोभाभिभूतमानसो ब्रूयात्-अक्षान् पातयित्वा यद् यस्य भागे समायाति तत् तस्य दीयताम्; एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः। कथम् ? इति चेद् उच्यते[भा.४३२५] जइ ताव दलंतऽगालिणो, धम्मा-ऽधम्मविसेसबाहिला । बहुसंजयविंदमज्झके, उवकलणे सि किमेव मुछितो॥ वृ-यदि तावदगारिणोधर्मा-ऽधर्मविशेषबाह्या अपि मूर्छा परित्यज्य साधूनामित्थमात्मीयानि वस्त्राणि "दलंति" प्रयच्छन्ति, तंतः ‘बहुसंयतवृन्दमध्यके' प्रभूतसाधुजनमध्यभागे त्वमेवैक उपकरणे क्रिमेवं सम्यक्परिज्ञातजिनवचनोऽपि मूर्छितोऽसि? नैतद्भवतो युज्यत इति भावः।। एवमप्युक्तो यद्यसौ नोपशाम्यति ततो वक्तव्यम्[भा.४३२६] अजो! तुमं चेव करेहि भागे, ततो नुघेच्छामो जहक्कमेणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516