Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 476
________________ उद्देशकः३, मूलं-९५, [भा.४३१३] ४७३ अदाणे गुरुणो लहुगा, सेसे लहुओ इमे होति ॥ वृ-वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्त्रणि प्रयच्छन्ति । यदि तत्र गुरुणां प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकाः । शेषाणां यथारत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः । तेच रत्नाधिकाः 'इमे' वक्ष्यमाणा भवन्ति । तत्र गुरुणां याशानि वस्त्राणि दीयन्ते तदेतत् प्रतिपादयति[भा.४३१४] विदु क्खमा जे य मनानुकूला, जे योवजुजंति असंथरते। गुरुस्स सानुग्गहमप्पिणत्ता, भाएंत सेसाणि उ झंझहीणा ।। वृ-साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभा "विदु" त्ति 'विदित्वा' सुन्दरा-ऽसुन्दरताविभागं विज्ञाय यानि 'क्षमाणि' हेढानि यानि च ‘मनोऽनुकूलानि' गुरुणां मनसोऽभिरुचितानियानि चाऽसंस्तरति गच्छेगुरुपरिभुक्तान्यपिशेषसाधूनामुपयुज्यन्ते तानि गुरोः 'सानुग्रह' सविशेषं यथा भवति एवमपयित्वा शेषाणि वस्त्राणि झञ्झा-कलहस्तेन हीनाः-विरहिताः सन्तो यथारत्नाधिकं परिभाजयन्ति । अथ तानेव रत्नाधिकानाह[भा.४३१५] उवसंपज्ज गिलाणे, परित्त सुत सोअव्वए य जातीय। तव भासा लद्धीए, ओमे दुविहस्स अरिहा उ॥ वृ. “उवसंपज्ज" ति यः तत्प्रथमतया उपसम्पदं प्रतिपद्यते । ‘ग्लानः' मन्दः, स च द्विधाआगाढोऽनागाढश्च । 'परीत्तः' परिमितोपधि । “सुत" त्ति बहुश्रुतः । “सोअव्वए" त्ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थे श्रोतव्ये ज्येष्ठतया व्यवह्रियते । “जाइ"त्तिजातिस्थविरः षष्टिवर्षपर्यायः । “तव" त्ति तपस्वी । “भास" त्ति यः अभाषिकः-तद्देशभाषायामनभिज्ञः । "लद्धीए" त्ति यस्य लब्ध्वा वस्त्राणि लभ्यन्ते। एतेषामुपसम्पद्यमानादीनां यथाक्रमंदत्वा ततो यो यः पर्यापरत्नाधिकः स सप्रथमं गृह्णाति, "ओमि" त्ति अवमरालिकः पश्चाद् गृह्णाति । एते यथाक्रमं 'द्विविधस्य' ओघोपधेरौपग्रहिकोपधेश्च ग्रहणे 'अर्हा' योग्या मन्तव्याः॥ [भा.४३१६] एएसि परुवणया, जा य विना तेहिं होति परिहानी । अहवा एक्केकस्स उ, अड्डोकंतीक्कमो होति ॥ वृ-एतेषाम्' उपसम्पद्यमानादीनां प्ररुपणा' व्याख्याकर्तव्या, सा चानन्तरमेव कृता । यद्येतेषां यथाक्रमं वृषभा न प्रयच्छन्ति ततो या तेषां 'तैः' वस्त्रैर्विना 'परिहानि' संयमविराधनादिका भवति तन्निष्पन्न प्रायश्चित्तम् । अथवा 'एकैकस्य' उपसम्पद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्धापक्रान्तिक्रमो भवति ॥ तद्यथा[भा.४३१७] उवसंपज्ज गिलाणो, अगिलाणो वा वि दोन्नि वि गिलाणा। तत्थ विय जो परित्तो, एस गमो सेसगेसुं पि । - उपसम्पद्यमानो द्विविधः-ग्लानोऽग्लानश्च । तत्र यो ग्लानस्तस्य दातव्यम् । अथ द्वावपि ग्लानावग्लानौ वा ततो यस्तत्र परीत्तोपधिस्तस्मै दातव्यम् । एवमेषः ‘गमः' प्रकारः 'शेषेष्वपि' बहुश्रुतादिपदेषु मन्तव्यः, तद्यथा-द्वावपि परीत्तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516