Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 475
________________ ४७२ बृहत्कल्प-छेदसूत्रम् -२-३/९५ दोषा न भवन्तीति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारालिकं' योयो रात्निकः- भावरलैरधिकस्तदनतिक्रमेणचेलानिप्रतिग्रहीतुमिति सूत्रार्थः।। अथ नियुक्तिविस्तरः[भा.४३०९] संघाऽएण एक्कतो, हिंडंती वंदएन जयणाए। साधारणऽनापुच्छा, उ अदत्तं एक्कओ भागा॥ वृ-सङ्घाटकेन ‘एकतः' एकस्यां दिशि साधवो वस्त्रग्रहणार्थं हिण्डन्ते । अथ सङ्घाटकेन न प्राप्यते ततो वृन्देनापि यतनया पर्यटन्ति । अथ ‘साधारणं' बहूनामाचार्याणां सामान्यं तत् क्षेत्रं ततो यदि तत्रापरेषामाचार्याणामनापृच्छया गृहन्ति तवा “अदत्तं" ति साधर्मिकस्तैन्यं भवति, अतस्तानापृच्छय ग्रहीतव्यानि, गृहीत्वा च तेषां वस्त्रणाम् ‘एकतः' एकसहशा भागाःकर्तव्यान विसहशा इति सङ्ग्रहगाथासमासार्थः॥ साम्प्रतमेनामेव विवृणोति[भा.४३१०] निस्साधारण खेत्ते, हिंडंतो चेव गीतसंघाडो। उप्पादयते वत्थे, असती तिगमादिवंदेनं ।। वृ-'निस्साधारणे एकाचार्यप्रतिबद्ध क्षेत्रे गीतार्थसङ्घाटको भिक्षां हिण्डमानएववसत्रण्युत्पादयति ।अथ सङ्घाटकेन हिण्डमानान प्राप्नुवन्ति ततः 'त्रिकादिवृन्देन' त्रिचतुःपञ्चादिसाधुसमूहेन पर्यटन्त उत्पादयन्ति ॥ साधारणक्षेत्रे पुनरयं विधिः[मा.४३११] दुगमादीसामन्ने, अणपुच्छा तिविह सोधि नवमं वा। संभोइयसामन्ने, तह चेव जहेक्कगच्छम्मि । कृ-द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणांसामान्य क्षेत्रेतेषामनापृच्छया गृह्णतस्त्रिविधा 'शोधिः' प्रायश्चित्तम्-जधन्ये पञ्चकम्, मध्यमे मासिकम्, उत्कृष्टेः; 'नवमंवा' सूत्रादेशेनानवस्थाप्यम् । ते चाचार्या परस्परं साम्भोगिका असाम्भोगिका वा । तत्र साम्भोगिकसामान्य क्षेत्रे वस्त्रग्रहणे तथैव विध्यवसातव्यो यथा एकस्मिन् गच्छे सङ्घाटकादिक्रमेण अनन्तरगाथायामुक्तः॥ असाम्भोगिकेषु विधिमाह[भा.४३१२] अमणुनकुलविरेगे, साही पडिवसभ-मूलगामे य। अहवा जो जं लाभी, ठायंतिजधासमाधीए॥ वृ-अमनोज्ञाः-असाम्भोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेकः- विभजनं कर्तव्यम्, यथा-एतेषु कुलेषुयुष्माभिर्वस्त्रणिग्रहीतव्यानि, एतेषुपुनरस्माभि, यद्वाऽस्यांसाहिकायांगृहपङ्क्तिरुपायां भवद्भिः, अस्यां पुनरस्माभि; अथवा प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं मूलग्रामे ग्रहीष्यामः; मूलग्रामेवा यूयं, वयंप्रतिवृषभग्रामेषु; अथवा यो यद्वस्त्र कुलादौ पर्यटन् "लाभी' लप्स्यते तेन तस्य ग्रहणं कर्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथासमाधिना तत्र तिष्ठन्ति ।। एवमसाधारणे वा क्षेत्रे वस्त्राणि गृहीत्वा किं कर्तव्यम् ? इत्याह - [भा.४३१३] वत्थेहि आनितोहिं, देति अहारातिणिं तहिं वसभा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516