Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 473
________________ ४७० बृहत्कल्प-छेदसूत्रम् -२-३/९४ शीतलविहारितादोषस्तेषां परितो भवति; 'भगवतः' वर्द्धमानस्वामिनो या आज्ञा तां तथेति प्रतिपत्त्या प्रतीच्छताम्, अनेन यथाच्छन्दतादोषस्तेषां नास्तीत्युक्तं भवति; एवंविधानांसाधनां क्षेत्र अन्तरा' तैरगृहीते उपकरणेयोवस्त्रदि गृह्णाति तस्य 'तत्स्थानारोपणा' स्वस्थानप्रायश्चित्तम्, तद्यथा-उत्कृष्ट चतुर्लघवः, मध्यमेमासिकम्, जघन्ये पञ्चकम्; सूत्रादेशेन वा साधर्मिकस्तैन्यमिति कृत्वाऽनवस्थाप्यम् । "अदत्तं"ति भगवता नानुज्ञातमिति कृत्वा तीर्थकरदत्तमपि भवति । [भा.४३००] उवरिं पंचमपुन्ने, गहणमदत्तं गत तिगेण्हंति। अनपुच्छ दुपुच्छा वा, त पुग्ने गत त्ति गेहंति ॥ वृ-परक्षेत्रे द्वयोर्मासयोरुपरि पञ्चसु दिनेष्वपूर्णे, यदि ग्रहणं करोति तदा अदत्तादानदोषः प्रसज्यते । अथ जानन्ति गता अन्यदेशं क्षेत्रस्वामिनस्ततोऽपूर्णेष्वपि पञ्चरात्रिन्दिवेषु गृह्णन्ति । अथ शङ्कितं ततो न गृह्णन्ति । अथ ते परदेशं न गतास्ततो यद्यनापृच्छया दुःपृच्छया वा वस्त्रं गृह्णन्ति ततस्तथैवादत्तादानदोषं प्राप्नुवन्ति । यत एवमतः 'तद्' वस्त्रदिकमुपकरणं 'गता निशिकतमन्यदेशंक्षेत्रिकाः' इति विज्ञाय पूर्णेमासद्वयेगृह्णन्ति।अत्रानापृच्छा नाम-क्षेत्रिकैर्वस्त्रग्रहणं कृतं न वा' इति न पृच्छति, दुःपृच्छा पुनः-अविधिना प्रच्छनं॥ सा चेयम्[भा.४३०१] गोवाल-वच्छवाला-कासग-आदेस-बालव-वुड्डाई । अविधी विही उसावग-महतर-धुवकम्मि-लिंगत्था ।। वृ-ये गोपाल-वच्छपाल-कर्षकाः प्रभाते निर्गताः सन्तो भूयः प्रदोषे ग्रामं प्रविशन्ति, ये वा तत्रांदेशाः-प्राघूर्णका अन्यग्रामादायाताः, ये वा बाल-वृद्धायोऽत्यन्तमुग्धा विस्मरणशीलाश्च तान्पृच्छति-किं श्रमणैः कृतं वस्त्रग्रहणंनवा? इति; एषाअविधिपृच्छा । विधिपृच्छापुनरियम्श्रावका ग्राममहत्तरा वा प्रच्छनीया येषु साधूनां वस्त्रग्रहणसम्भवो भवति, ये वा ध्रुवकर्मिकाःलोहकार-रथकारादयः ये वा लिङ्गस्थाः-लिङ्गधारिमस्तान् पृच्छति 'वस्त्रादिग्रहणं साधुभिः कृतं न वा?' इति॥ परक्षेत्रे वस्त्रग्रहणविधिमभिधित्सुराह[भा.४३०२] गंतूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति। तेसाऽऽगतेसु सुद्धेसु जत्तियं सेस अग्गहणं ।। वृ-क्षेत्रस्वामिनां समीपे गत्वा विधिवद् आपृच्छय तेषांसाधूनां वचने' अनुज्ञायां तदीये क्षेत्रे वस्त्रगवेषणा कर्तव्या भवति। अथ न ज्ञायन्ते ते कुत्रापि गताअमीभिश्च साधुभिस्तत्र वस्त्रग्रहणं कियदपि कृतं ते च क्षेत्रस्वामिन आगताः ततस्तेषु 'शुद्धेषु' विधिना आगतेषु यावद् वस्त्रादि गृहीतं तावत् तेषां प्रत्यर्पयितव्यम्, शेषस्य चोपकरणस्य ग्रहणं न कर्तव्यम् । इदमेव सविशेषमाह[भा.४३०३] उप्पन्न कारणाऽऽगंतु पुच्छिउं तेहि दिन्न गेण्हंति । तेसाऽऽगयेसु सुद्धेसु जत्तियं सेस अग्गहणं॥ वृ-बाल-वृद्ध-शैक्षादीनांशीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पन्ने स्वक्षेत्रे वस्त्रदुर्लभतां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516