Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६८
बृहत्कल्प-छेदसूत्रम् -२-३/९४
वृ- 'इतरे' पार्श्वस्थादयो वर्षास्वपि वस्त्रणि गृह्णन्ति, न च नियमेनैव चतुर्मासानन्तरंते विहरन्ति, अतस्तैः शुद्धे अशुधे वा उपकरणे गृहीते यत् शेषं वस्त्रदिकं श्राद्धाः प्रयच्छन्ति तद् मासद्वयमध्येऽपि गृह्णन्ति ॥
[भा. ४२९०]
सक्खेत्ते परखेत्ते वा, दो मासा परिहरेत्तु गेण्हंति । जं कारणं न निग्गय, तं पि बहिंझोसियं जाणे ॥
वृ- स्वक्षेत्रं यत्रात्मना वर्षाकल्पः कृतः परक्षेत्रं यत्रापरे संविग्ना वर्षाकल्पं स्थितास्तत्र स्वक्षेत्रे परक्षेत्रे वा द्वौ मासौ परिहृत्य तृतीयमासि गृह्णन्ति । अथ चतुर्मासानन्तरं कर्दमादिभि कारणैर्न निर्गतास्ततः 'यं' यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तमपि कालं 'बहिर्जीषितं ' बहिक्षिप्तं 'जानीयाद्' गणयेत्, तावन्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः ॥
-कैः पुनः कारणैर्न निर्गताः ? इत्याह
[भा. ४२९१] चिक्खल्ल-वास - असिवादिएसु जहि कारणेसु उ न निंति । दिंते पडिसेधेत्ता, गेण्हंति उ दोसु पुन्नेषु ॥
वृ- चिक्खल्ल:- कर्दमस्तदाकुलाः पन्थानः, वर्षं वा नोपरमते, अशिव-दुर्भिक्षादीनि वा बहिरुपस्थितानि, एवमादिभि कारणैर्यत्र न निर्गच्छन्ति तत्र यदि केचिद् वस्त्रादिना निमन्त्रयन्ति तदा तान् ददतः प्रतिषिध्य द्वयोस्तु मासयोः पूर्णयोर्वस्त्रदिकं गृह्णन्ति ॥
कुतः ? इत्याह
[भा. ४२९२] भावोउ निग्गतेहिं, वोच्छिज्जइ देंति ताई अन्नस्स । अत्तट्ठेति व ताई, एमेव य कारणमनिंते ॥
वृ- 'ये साधव इह क्षेत्रे वर्षावास स्थितास्तेषां वस्त्रणि दास्यामः' इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवच्छिद्यते, यानि वा वस्त्राणि दातुं सङ्कल्पितानि तानि 'अन्यस्य' पार्श्वस्थादेः प्रयच्छन्ति स्वयमेव वा 'आत्मार्थयन्ति' परिभुञ्जत इत्यर्थः । अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृह्णानेष्वेवमेव भावो व्यवच्छिद्यते, अतो मास परिहृत्य ग्रहीतव्यम् । कारणे तु मासद्वयमध्येऽपि गृह्णीयात् ॥ तदेव दर्शयति
[भा. ४२९३] गच्छे सबाल - वुडे, असती परिहर दिवड्डमासं तु । पणतीसा पणुवीसा, पन्नरस दसेव एक्कं च ॥
वृ- सबाल-वृद्धे गच्छे वस्त्रभावे शीतं सोढुमसमर्थे सार्धं मासं 'परिहर' वर्जय, परिहृत्य च तत ऊर्ध्वं गृह्णीयात् । अथ सार्धमासमपि परिहर्तुं न शक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर, अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाप्यसंस्तरणे पञ्चदश दिनानि, तथाप्यशक्तौ दश दिवसान्, तथाप्यसामर्थ्य एकमपि दिनं परिहरेदिति सङ्ग्रहगाथासमासार्थः ।।
अथैनामेव विवृणोति
[ भा. ४२९४] बाल- Sसहु-वुड्ड-अतरंत-खमग- सेहाउलम्मि गच्छम्मि । सीतं अविसहमाणे, गेहंति इमाए जयणाए ।
वृ- तथाविधवस्त्राभावाद् बालाऽसहिष्णु-वृद्ध-ग्लान-क्षपक- शैक्षाकुले गच्छे शीतम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516