Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं-९४, [भा. ४२८६]
४६७ सप्ततिदिनसद्भावात् । एवं ये भाद्रपदबहुलदशम्यां पर्युषणयन्ति तेषामशीतिर्दिवसा मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवसाः, श्रावणशुद्धपञ्चम्यां दिवसशतम्, श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एववर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम्-भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चससप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चदशोत्तरं शतम्, आषाढपूर्णिमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्षं वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्ष नोपरमतेततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्षन तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम्, मार्गशिरःपौर्णमासी यावदित्यर्थः । ततऊर्ध्वं यदयपि कर्दमाकुलाः पन्थानः, वर्षंचागाढमनुपरतं वर्षति, यद्यपिच पानीये प्लवमानस्तदानीं गम्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाश्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः ।।
अथ तमेव पाण्मासिकमाह[भा.४२८६] काऊण मासकप्पं, तत्व ठिताणऽतीते मग्गसिरे ।
सालंबणाण छम्मासिओ उजेट्टोग्गहो होति ॥ वृ-यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यच्च तथाविधं क्षेत्रं नास्ति ततोमासकल्पं कृत्वा तत्रैव वर्षावासंस्थितानांततश्चतुर्मासानन्तरंकर्दम-वर्षादिभिःकारणैरतीते मार्गशीर्षमासे निर्गच्छतां 'सालम्बनानाम्' एवंविधालम्बनसहितानां पाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥ [भा.४२८७] अह अस्थि पदवियारो, चउपाडिवयम्मि होति निग्गमनं ।
अहवा वि अनिताणं, आरोवण पुबनिद्दिट्टा ॥ वृ-अथास्ति कर्दम-वर्षादिकारणाभावात् पदविचारः ततश्चतुर्णा मासानां पर्यन्ते या प्रतिपत् तस्यांनिर्गमनकर्तव्यम्। अथतेपदप्रचारमसम्मवेऽपिन निर्गच्छन्तिततोऽनिर्गच्छतां पूर्वनिर्दिष्टा' मासकल्पप्रकृते प्रागभिहिता चतुर्लघुकाख्या आरोपणा मन्तव्या॥
अथ निर्गतानां सामाचारीमुपदर्शयति[भा.४२८८] पुनम्मि निग्गयाणं, साहम्मियखेत्तवजिते गहणं ।
संविग्गाण सकोसं, इयरे गहियम्मि गेहंति ॥ -पूर्णे वर्षावासावग्रहे निर्गतानां यत्र साधर्मिकैवर्षावासः कृतस्तत् क्षेत्रं वर्जयित्वा अन्येषु ग्राम-नगरादिषूपकरणस्य ग्रहणं भवति । ये संविग्नाः साम्भोगिका असाम्भोगिका वा तेषां यद् वर्षाक्षेत्रं तत् सक्रोशयोजनं परिहत्य गृहन्ति । इतरे-पावस्थादयस्तेषां यद् वर्षावासक्षेत्रं तत्र तैर्गृहीते उपकरणे पश्चात् संविग्ना गृह्णन्ति, तेषां च क्षेत्रं मासद्वयं न परिहियते॥
कुतः ? इति चेद् उच्यते[भा.४२८९] वासासु विगिण्हंती, नेव य नियमेण इतरे विहरती ।
तहिइंसुद्धमसुद्धे, गहिए गिण्हंति जं सेसं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a401db7a7e387caa590c7659cae35585f8d9f993a8d22c47932cf0bfe65339b2.jpg)
Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516