Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 469
________________ ४६६ बृहत्कल्प-छेदसूत्रम् -२-३/९४ उच्यते यद्यभिवर्धितोऽसौ संवत्सरस्ततो विंशतिरात्रिन्दिवानि, अथ चान्द्रोऽसौततः सविंशतिरात्रं मासं यावदनभिगृहीतं कर्तव्यम्। ___ "तेनं"ति विभक्तिव्यत्ययात् 'ततः परं' विंशतिरात्रात् सविंशतिरात्रमासाच्च ऊर्ध्वम् 'अभिगृहीतं' निश्चितं कर्तव्यम् 'गृहिज्ञातंच' गृहस्थानां पृच्छतां ज्ञापना कर्तव्या, यता-वयमत्र वर्षाकालं स्थिताः । एतच्च गृहिज्ञातं कार्तिकमासं यावत् कर्तव्यम्।।। किं पुनः कारणम् इयति काले व्यतीत एव गृहिज्ञातं क्रियते ? नार्वाग्? इति अत्रोच्यते[भा.४२८३] असिवाइकारणेहिं, अहवण वासं न सुटु आरद्धं । अभिवडियम्मि वीसा, इयरेसु सवीसती मासे ॥ इ-काचित् तत्र क्षेत्रेऽशिवं भवेत्, आदिशब्दाद्राजद्विष्टादिकंवा भयमुपजायेत, एवमादिभिः कारणैः; अथवा तत्र क्षेत्रे ना सुष्ठुवर्ष वर्षितुमारब्धयेनधान्यनिष्पत्तिरुपजायते, ततश्चप्रथममेव 'स्थिता वयम्' इत्युक्ते पश्चादशिवादिकारणे समुपस्थते यदि गच्छन्ति ततो लोको ब्रूयात्-अहो! एते आत्मानं सर्वज्ञपुत्रतया ख्यापयन्ति परं न किमपिनते, मृषावादं वा भाषन्ते, 'स्थिताः स्मः' इति भणित्वा सम्प्रति गच्छन्ति इति कृत्वा । ___ अथाशिवादिकारणेषु सातेष्वपि तिष्ठन्ति तत आज्ञादयो दोषाः । अपि च 'स्थिताः स्मः' इत्युक्तेगृहस्थाश्चिन्तयेयुः-अवश्यंवर्षभविष्यति येनैते वर्षारात्रमत्र स्थिताः; ततोधान्यं विक्रीणीयुः गृहं वा छादयेयुः हलादीनि वा सस्थापयेयुः । यत एवमतोऽभिवर्धितवर्षे विंशतिरात्रे गते 'इतरेषु च' त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति ॥ [मा.४२८४] एत्थ उ पनगंपनगं, कारणिगंजा सवीसती मासो। . . सुद्धदसमीठियाण व, आसाढीपुनिमोसरणं । वृ-'अत्र' इति आषाढपूर्णिमायां स्थिताः पञ्चाहं यावद् दिवा संस्तारक-डगलादि गृह्णन्ति, रात्रौ च पर्युषणाकल्पं कथयन्ति, ततः श्रावणबहुलपञ्चम्यांपर्युषणं कुर्वन्ति ।अथाषाढपूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासप्रायोग्यमुपधिं गृहीत्वा पर्युषणाकल्पं च कथयित्वा दशम्यां पर्युषणयन्ति। एवं कारणिकं रात्रिन्दिवानां पञ्चकं पञ्चकंच वर्षयता तावद् नेयं यावत् सविंशतिरात्रोमासः पूर्णः। __ अथवा ते आषाढशुद्धदशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां पञ्चरात्रेण डगलादौ गृहीते पर्युषणाकल्पेच कथिते आषाढपूर्णिमायां समवसरणं पर्युषणं भवति, एष उत्सर्गः। शेषं कालं पर्युषणमनुतिष्ठतां सर्वोऽप्यपवादः । अपवादेऽपि सविंशतिरात्रा मासात् परतो नातिक्रमयितुं कल्पते । यद्येतावत्यपि गते वर्षाक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषणयि-तव्यम् ॥ अथ पञ्चकपरिहणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमाणमाह[भा.४२८५] इय सत्तरी जहन्ना, असिती नउई दसुत्तर सयं च । जति वासति मग्गसिरे, दस राया तिन्नि उक्कोसा॥ वृ-'इति' उपप्रदर्शने।ये किल आषाढपूर्णिमायाः सविंशतिरात्रे मासे गतेपर्युषणयन्ति तेषां सप्ततिदिवसानिजघन्यो वर्षावासावग्रहो भवति भाद्रपदशुद्धपञ्चम्याअनन्तरंकार्तिकपूर्णिमायां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516