Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६४
बृहत्कल्प-छेदसूत्रम् -२-३/९४ [भा.४२७२] कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं ।
गंतुंता पडिसिद्धं, कारण गमने बहुगुणं तु॥ वृ-कश्चिद् नोदकः तत्र' इति अनन्तरोक्तव्याख्याने इदं भणेत्-यदि पूर्वं प्रतिवृषभग्रामेषु ग्रहीतव्यं ततो मूलग्रामे, एवं तर्हि दूरत्वात् क्षेत्राद् बहिर्ग्रहणं सुतरां कल्पते । गुरुराह- क्षेत्राद् बहिर्वर्षासु गन्तुमपि ताव् प्रतिषिद्धं किं पुनर्वस्त्रग्रहणम् ? । अथ कारणे वर्षासु क्षेत्रबहिर्गमनं करोति तत्रगतश्च वर्षाकल्पादिना निमन्त्रयते तदा संयमस्य बहुगुणमितिकृत्वा तदपि ग्रहीतव्यम्।।
इदमेव व्याचिख्यासुः प्रथमतः परवचनं व्याख्याति[भा.४२७३] एवं नामं कप्पति, जं दूरे तेन बाहि गिण्हंतु।
एवं भणंति गुरुगा, गमने गुरुगा व लहुगावा ॥ वृ-यद् ‘दूरे ग्रामाबहिर्वस्त्र तयदि प्रथमं कल्पते तत एवं नाम क्षेत्रा बहि सुतरांप्रथमतरं गृह्णन्तु। सूरिराह-एवं भणतो भवतश्चतुर्गुरुकाः। अथ क्षेत्रा बहिर्गच्छति ततो गुरुका वा लघुका वा प्रायश्चित्तम् । तत्र नवप्रावृषि चत्वारो गुरवः, शेषे वर्षाकाले चत्वारो लघवः ।।
“कारण गमने बहुगुण"मिति पदं व्याचष्टे[भा.४२७४] संबद्ध-भाविएसू, कपतिजा पंच जोयणे कज्जे ।
जुने व वासकप्पं, गेण्हतिजं बहुगुणं चऽन्नं ।। वृ-यानि साधर्मिकसम्बन्धेन सम्बद्धानि परस्परं गमना-ऽऽगमनभावितानि च क्षेत्राणि तेषु वर्षासुकल्पते साधर्मिकाणामुदन्तवहनार्थं चत्वारि पञ्च योजनानि वा यावद् गन्तुंवस्तुंवा । एवं कार्ये गतस्य तस्यापान्तराले वर्षात्राणेन कश्चिद् निमन्त्रणां कुर्यात्, तस्य च प्राक्तनो वर्षाकल्पः परिजीर्ण, तच्च वर्षांत्राणंघन-मसृणमभिनवंच, ततो वर्षासुबहुगुणमिति कृत्वा गृह्णाति।कारणतः 'अन्यदपि' पटलकादिकंघन-मसृणादिगुणोपेतमाचार्यप्रायोग्यं वायद्वस्त्र लभ्यते तदपि भूयान् गुणोऽत्रगृहीतेभविष्यति' इति कृत्वा गृह्यते।एवं कारणेगमनंग्रहणंचोभयमपि दृष्टम्, कारणाभावे तुन कल्पते गन्तुंग्रहीतुंवा॥
अथ गृह्णाति ततोऽमून् षोडश दोषान् प्राप्नोति[भा.४२७५] आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य।
ठवणा पाहुडियाए, पादोकर कीत पामिच्चे ।। [भा.४२७६] परियट्टिए अभिहडे, उब्मिन्ने मालोहडे इय।
अच्छिज्जे अणिसिढे, धोते रत्ते य घटे य॥ वृ-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३मिश्रजातं ४स्थापना ५प्राभृतिका ६प्रादुष्करणं७ क्रीतं ८ प्रामित्यं ९ परिवर्तितम् १० अभ्याह्नतम् ११ उद्भिनं १२ मालापहृतम् १३आच्छेद्यम् १४ अनिसृष्टं चेति १५ पञ्चदश दोषाः । “धोए रत्ते य घटे य" त्ति साधूनामर्थाय मलिनवस्त्र 'धौतं चौखंकृतमित्यर्थः, एवं रक्तं प्रदत्तरागम्, 'घृष्टं मसृणपाषाणादिनोत्तेजितम्, एतेत्रयोऽप्येक एव दोष इति॥ [भा.४२७७] एते सव्वे दोसा, पढमोसरणे न वज्जिता होंति।
जिनदिटेहि अगहिते, जो गेण्हति तेहि सो पुट्ठो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516