Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७४
बृहत्कल्प-छेदसूत्रम् -२-३/९५ देयम् । अथ द्वावपि बहुश्रुतौ ततो यश्चिन्तनिकाकारकस्तस्य दातव्यम् । अथ द्वावपि चिन्तनिकाकारकौ ततो यस्तत्र जातिस्थविरस्तस्य दातव्यम् । अथ द्वावपि जातिस्थविरौ ततो यस्तपस्वी तस्य दातव्यम् । अथोभावपि तपस्विनौ ततो योऽभाषिकस्तस्मै दातव्यम् । अथ द्वावप्यभाषिको भाषिकौ वा ततो यो लब्धिमान् तस्मै प्रदातव्यम् ।
प्रकारान्तरेण यथारत्नाधिकपरिपाटीमाह[भा.४३१८] आयरिए य गिलाणे, परित्त पूया पवत्ति थेर गणी।
सुत भासा लद्धीए, ओमे परियागरातिनिए । वृ-आचार्यस्य पूर्वं विशिष्टानि वस्त्राणि दत्वा ततो ग्लानस्य दातव्यानि । ततः परीत्तोपधेः, ततः “पूय"त्ति चूर्ण्यभिप्रायेण पूजनार्हस्य' उपाध्यायस्य बृहद्भाष्याभिप्रायेण तु पूजनार्हस्य' गुरुसम्बन्धिपितृ-पितृव्यादेः, ततः प्रवर्तिनः, तदनन्तरं स्थविरस्य, ततः “गणि" त्ति गणावच्छेदिकस्य, ततः श्रुतसम्पन्नस्य, ततोऽभाषिकस्य, ततो लब्धिमतोयथाक्रमंदातव्यम् । अर्धापक्रान्तिचारणिकाप्राग्वत् कर्तव्या । तदनन्तरं यो यः पर्यायरालिकस्तस्य तस्य प्रथमम्, अवमरालिकस्य तु पश्चाद् यथाक्रमं दातव्यम्॥
एवं तावत् सङ्घाटकेनानीतानां विधिरुक्तः । अथ वृन्देनानीतानां यो विधिस्तमभित्सुराह[भा.४३१९] नेगेहिं आनियाणं, परित्त परियाग खुभिय पिंडेत्ता।
आवलिया मंडलिया, लुद्धस्स य सम्मता अक्खा ॥ वृ-अनेकैः साधुभिरानीतानांवस्त्राणांपरिभाजनेविधिरुच्यते-आचार्यादिक्रमेण परीत्तोपधीनां यावद् दत्त्वा ततोये पर्यायरालिकास्तेषामहिण्डमानानामपि प्रथमतो दातव्यम् ।तत्र च यैस्तानि वस्त्राणि समानीतानि ते 'पिण्डित्वा' सम्भूय 'क्षुभितं' क्षोभं कुर्वीरन्, कलहमिति यावत् । कश्चितु ब्रूयात्-आवलिकया मण्डलिकया वा विभजनं विधीयताम् । “लुद्धस्स य सम्मता अक्ख" त्ति कस्यापि पुनर्लुब्धस्याक्षान् पातयित्वा वस्त्रविभजनमभिमतम् । एष सङ्ग्रहगाथासङ्केपार्थः॥
साम्प्रतमेनामेव विवरीपुराह[भा.४३२०] गेण्हंतु पूया गुरवो जदिटुं, सच्चं भणामऽम्ह वि एयदिटुं।
अणुण्हसंवट्टियऽकक्कसंगा, गिण्हंतिजं अनि न तं सहामो॥ वृ-अहिण्डमानानां वस्त्रषु दीयमानेषु ये वस्त्रणामानेतारस्ते ब्रवीरन्-यद् ‘इष्टं' मनोऽनुकूलं वस्त्र गुरवो गृह्णन्ति तत् ते सकलगच्छस्वामितया पूज्या इति कृत्वा गृह्णन्तु, यद् गुरुणामुत्कृष्टं वस्तु दीयते तत् 'सत्यम्' अवितथमिति वयमपि भणामः, न केवलं वचसैव भणामः किन्तु मनसाऽप्यस्माकमेतदिष्टमेव, परमनुष्णेन-भिक्षापरिभ्रमणाभावादुष्णलगनाभावेनसंवर्तितानिवर्तुलीभूतानि अतएवाकर्कशानिअङ्गानि-पाणि-पाद-पृष्ठोदरप्रभृतीनियेषां तेऽनुष्णसंवर्त्तिताककशाङ्गा एवंविधाः सन्तो यद् ‘अन्ये' अहिण्डमानाःप्रथमं गृह्णन्ति न तद् वयं सहामहे ।। [भा.४३२१] आगंतुगमादीनं, जइ दायव्वई तो किणा अम्हे ।
कम्मारभिक्खुयाणं, गाहिज्जामो गइमसग्धं । वृ-आगन्तुकाः-उपसम्पत्तारस्तेषाम् आदिशब्दाद् ग्लानादीनां च यदि दातव्यानि वस्त्राणि ततः “किण" त्ति केन कारणेन वयं कर्मकारभिक्षुकाणां' देवद्रोणीवाहकभिक्षुविशेषाणां गतिम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/972ddad95788ce314cf8bf15dd57d231cfc5bb50f1c65fad553e0231329a2dfa.jpg)
Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516