Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 482
________________ उद्देशक : ३, मूलं-९५, [भा. ४३३९] ४७९ वृद्धा, "भिक्षुणी' प्रतीता, 'क्षुल्लीका' बाला । एतासां पञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव 'संयोगगमं' संयोगतोऽनेकप्रकारं वक्ष्यामि। यथाप्रतिज्ञातमेवाह[भा.४३४०] सव्वा वि तारणिज्जा, संदेहाओ परक्कमे संते। एक्केवं अवणिज्जा, जा गणिणी तत्थिमो भेदो। [भा.४३४१] तरु निष्फन परिवारा, सलद्धिया जा यहोइ अब्मासे । अभिसेगाए चउरो, सेसाणं पंच चेव गमा।। वृ-इदंगाथाद्वयं साधुगतगाथाद्वयमिव व्याख्येयम् ।। परःप्रेरयन्नाह[भा.४३४२] बाला य वुड्डा य अजंगमा य, लोगे वि एते अनुकंपणिज्जा । सव्वानुकंपाए समुज्जएहिं, विवजओऽयं कहमीहितो मे। कृ-बालाश्च वृद्धाश्चाजङ्गमाश्चेति लोकेऽपि तावदेतेऽनुकम्पनीया इष्यन्ते, अतः सर्वेषामपि निर्विशेषमनुकम्पायांसमुद्यतैः कथमयं “भे" भवद्भिः विपर्ययः' वैपरीत्यम् ईहितम्' अङ्गकृतम्? यदेवंबाल-स्थविरीपरित्यज्य आचार्यादयो निस्तार्यन्ते, वृद्धवाऽजकममाचार्यविमुच्य तरुणस्तायते ।। पर एव प्रत्युत्तरमाशय परिहरनाह[भा.४३४४] जइ बुद्धी चिरजीवी, तरुणो थेरो य अप्पसेसाऊ । सोवक्कमम्मि देहे, एवं पिन जुज्जए वोत्तं ॥ वृ-'यदि' इतिअथशब्दार्थे, अथैव भवतांबुद्धि स्यात्-'चिरजीवी' प्रभूतवर्षजीवितस्तरुणः, स्थविरः पुनः 'अल्पशेषायुः' स्तोकावशेषायुष्कः, अतः स्थविरं विमुच्य तरुणं तारयामः, एतदप्यसमीचीनम् । कुतः? इत्याह-'सोपक्रमे अध्यवसान-निमित्तादिभिरायुष्कोपक्रमकारणैः सप्रत्यपाये देहे सति “एतदपि' चिरजीवितादिकं वक्तुं न युज्यते॥ [भा.४३४] अवि यहुअसहू थेरो, पयरेजियरो कदाइ संदेहं । ओरालमिदं बलवं, जंघेपइ मुच्चई अबलो। वृ-'अपिच' इत्यभ्युच्चये, 'हुः' निश्चये।स्थविरोवृद्धत्वादेव 'असहिष्णुः' नतरीतुंशक्नोति, 'इतरस्तु' तरुणः समर्थतया कदाचित्स्यमेव 'सन्देहम्' उदकवाहकहरणरूपंप्राणसन्देहकारणं प्रतरेत्, अतः ‘उदारं परिस्थूरम् इदं' भवदीयंवचनम्-यद् बलवान्' तरुणो गृह्यते 'अबलस्तु' स्थविरो मुच्यते॥ इत्थं परेणोक्ते सूरिराह[भा.४३४५] आय-परे उवगिण्हइइ, तरुणो थेरो उ तत्थ भयणिजो। अनुवक्कमे वि थेवो, चिट्ठइ कालो उथेरस्स॥ - तरुण आचार्यादरपूर्वसूत्रा-ऽर्थग्रहण-तपःकर्मकरणादिना वस्त्र-पात्रादिसम्पादनसूत्रार्थप्रदानादिना वाऽऽत्मानं परांश्चोपगृह्णाति।स्थविरस्तुतत्राऽऽत्म-परोपग्रहकरणेभजनीयः, कदाचित्तंकर्तुसमर्थकदाचिच नेति भावः । तथा 'अनुपक्रमेऽपि' आयुष उपक्रममन्तरेणापि स्थविरस्य स्तोक एव कालोऽवशेषस्तिष्ठति, तरुणस्य तु सोपक्रमायुषोऽपि स्तोको वा भवेद् द्राधीयान् वा, ततः “सोवक्कमम्मि देहे" इत्यादि त्वदुक्तं यत्किञ्चि देतत्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516