Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 468
________________ उद्देशक : ३, मूलं-९४, [भा. ४२७७] वृ-एते सर्वेऽप्याधाकर्मादयो दोषाः प्रथमे समवसरणे वस्त्रादिकं गृह्णतान वर्जिता भवन्ति । अथ पूर्वं दर्पतो न ग्रहीतमुपकरणं ततः प्रथमे समवसरणे यो गृह्णाति सोऽपि जिनैः-तीर्थकरैर्ये दृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो मन्तव्यः, भावतस्तेन दोषाणामङ्गीकृतत्वात् ।। [भा.४२७८] पढमम्मि समोसरणे, जावतियं पत्त-चीवरं गहियं । सव्वं वोसिरियव्वं, पायच्छित्तं च वोढव्वं ॥ वृ-प्रथमे समवसरणे दर्पतो यावत् पात्र-चीवरं गृहीतं तावत्सर्वमपि व्युस्रष्टव्यम्, प्रायश्चित्तं च गुरुप्रदत्तं यथोक्तं वोढव्यम् । अथवा कार्ये समुत्पन्ने यत् पात्रं वा चीवरंवा-चारणादिषु गृहीतं , तत्सर्वं कृते कार्येपरिष्ठापनीयम्, अपरिणामकप्रत्ययनिमित्तंचयथालघीयःप्रायश्चित्तंवोढव्यम्॥ [भा.४२७९] सज्झायट्ठा दप्पेण वा वि जाणंतए विपच्छित्तं । कारण गहियं तु विदू, धरेतऽगीएसु उज्झंति॥ वृ-स्वाध्यायार्थ दर्पण वा यदि "बहि-अंत-ऽसन्नि-सन्निसु, जं दिढं तेसु चेव जमदिटुं।" इत्यादिकं क्रममुलाय गृहीतं तत्र 'जानतोऽपि' गीतार्थस्यापि प्रायश्चित्तम् । यत्तु कारणे क्रमेण विधिना गृहीतं तद् यदि सर्वेऽपि 'विदः' गीतार्थास्तदा धारयन्ति । अथागीतार्थमिश्रास्ततोऽन्यस्मिन्नुपकरणे लब्धे तद् उज्झन्ति॥ अथ यस्मिन् काले वर्षावासे स्थातव्यं यावन्तं वा कालं येन वा विधिना तदेतदुपदर्शयति[भा.४२८०] · आसाढपुन्निमाए, वासावासासु होति अतिगमनं । मग्गसिरबहुलदसमी, उजाव एक्कम्मि खेत्तम्मि ॥ कृ-आषाढपूर्णिमायांवर्षावासप्रायोग्ये क्षेत्रे अतिगमनं प्रवेशःकर्तव्यो भवति।तत्रचापवादतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षेत्रे वस्तव्यम् । एतच्च चिक्खल्ल-वर्षादिकं वक्ष्यमाणं कारणमङ्गीकृत्योक्तम् । उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यम् ॥ इदमेव भावयति[भा.४२८१] बाहि ठिया वसभेहिं, खेत्तं गाहेत्तु वासपाउगं। कपं कधेत्तु ठवणा, सावणबहुलस्स पंचाहे ॥ वृ-यत्राषाढमासकल्पः कृतस्तत्रअन्यत्र वाप्रत्यासनग्रामेस्थिता वर्षाक्षेत्रंवृषभैः साधुसामाचारी ग्राहयन्ति।तेच वृषभा वर्षाप्रायोग्यं संस्तारक-तृण-डगल-क्षार-मल्लकादिकमुपधिंगृह्णन्ति।तत आषाढपूर्णिमायां प्रविष्टाः प्रतिपद आरभ्य पञ्चभिरहोभि पर्युषणाकल्पं कथयित्वा श्रावण बहुलपञ्चम्यां वर्षाकालसामाचार्या स्थापनां कुर्वन्ति, पर्युषणयन्तीत्यर्थः॥ [भा.४२८२] एत्थ य अनभिग्गहियं, वीसतिरायं सवीसगं मासं । तेन परमभिग्गहियं, गिहिणायं कत्तिओ जाव ॥ वृ- 'अत्र' इति श्रावणबहुलपञ्चम्यादावात्मना पर्युषितेऽपि 'अनभिगृहीतम्' अन्वधारितं गृहस्थानांपुरतः कर्तव्यम् । किमुक्तं भवति? -यदि गृहस्थाः पृच्छेयुः-आरयाः! यूयमत्र स्थिता वा? नवा? इति; एवं पृष्टे सति स्थिता वयमत्र' इति सावधारणंन वक्तव्यम्, किन्तु साकारम्, यथा-नाद्यापिकोऽपि निश्चयःस्थिताअस्थिता वेति। इत्थमनभिगृहीतं कियन्तं कालं वक्तव्यम्? [19301 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516