Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 456
________________ उद्देश : ३, मूलं- ९२, [भा. ४२२२] ४५३ देसि तो भूओ तुमं उच्छाएहिइ । 'एवं भवउ' त्ति भणित्ता गहिओ तेन भूओ भणइ-कम्मं मे देहि । दिनं तं खिप्पमेव कयं । पुनो मग्गइ, अन्नं दिनं । एवं सव्वम्मि कम्मे निट्ठि पुनो भणइ - देहि कम्मं । तेन भन्नइ - एत्थं खंभे चडुत्तरं करेहि जाव अन्नं किंचि कम्मं न देमि । भूओ भणइ अलाहि, पराजितो मि, चिंधं ते करेमि - जाव नावलोएसि तत्थ तलागं भविस्सइ । तेन अस्से विलग्गिऊण बारस जोयणाई गंतूण पलोइयं जाव तक्खणमेव कयं तेन भरुयच्छस्स उत्तरे पासे भूयतलागं नाम तलागं ।। अमुमेवार्थमभिधित्सुराह "भरुयच्छ" इत्यादि । भरुकच्छवणिजा अश्रद्दधता 'भूतः ' पिशाचिवशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम्कर्मण्यदीयमाने अयं ‘रुष्टः ' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापारं क्षिप्रमेव करोति । ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्थ्यात् स्तम्भ एकः कारयाञ्चक्रे । ततस्तं भूतमभिहितवान्- यावद परं व्यापारं न ददामि तावद् ‘अत्र' स्तम्भे ‘उत्सर' आरोहा ऽवरोहक्रियां कुरु इति भावः । ततः सभूत उक्तवान्निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् 'न प्रेक्षसे' न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् ॥ एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । निजित इसीतलागे, रायगिहे सालिभद्दस्स ।। [भा. ४२२३] बु- 'एवमेव ' तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद् ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे । तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥ अथ सप्त निर्योगान् व्याचष्टे[भा. ४२२४] तिन्निय अत्तद्वैती, चत्तारि य पूयणारिहे देति । दिंतस्स य घित्तव्वो, सेहस्स विविंचणं वा वि ॥ वृ- सप्त निर्योगान् गृहीत्वा प्रव्रजतोऽयं गुणः- तेषां सप्तानां निर्योगाणां मध्यात् त्रीन् स शैक्षः 'आत्मार्थयति' आत्मनोऽर्थाय गृह्णातीत्यर्थः; चतुरश्च निर्योगान् 'पूजनार्हाणाम्' आचार्योपाध्यायप्रवर्ति-सङ्घाटकसाधूनां प्रयच्छति । तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धः ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैक्षस्याभावे 'विवेचनं' परिष्ठापनं तस्य क्रियते ॥ एवं तस्य त्रीन् निर्योगान् गृहीत्वा प्रव्रजितस्य यद् भवति तद् दर्शयति[भा. ४२२५ ] सज्झाए पलिमंथो, पडिलेहणियाए सो हवइ सिग्गो । एगं च देति तहितं; दोन्निय से अप्पणी हुंति ॥ वृ-तस्य त्रीन् निर्योगान् उभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायविषयः परिमन्थो भवति । तया च महत्या प्रत्युपेक्षणया सः 'सिग्गः' परिश्रान्तो भवति । तत एवं निर्विन्नः सन् स एकं निर्योगं सूरीणां ददाति । प्रदत्ते च तस्मिन् तस्य द्वौ निर्योगावात्मनः सत्तायां भवतः ॥ एवमप्यसौ द्वाभ्यां निर्योगाभ्यां शेषसाधुभ्यो अन्याद्दश इव दृश्यते ततः [ भा. ४२२६ ] निग्गमने बहुभंडो, कत्तो कतरो व वाणिओ एइ । बितियं पि देति तहियं, मा भंते ! दुल्लहं होज्जा ॥ वृ- मासकल्पे पूर्णे ततः क्षेत्राद् निर्गच्छतां स एवैकः 'बहुभाण्डः' बहूपकरणो दृश्यते ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516