Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 454
________________ ४५१ उद्देशकः ३, मूलं-९२, [भा. ४२१२] [भा.४२१२]वत्था वा पत्ता व घरे वि हुजा, दटुंपि कुजा निउणो सयं पि । निजुत्तभंडं व रयोहरादी, कोईक किणे कुत्तियआवणातो॥ . वृ-वस्त्राणिवापात्राणि वा प्रायो गृहेऽपि भवेयुः । यत्तु निर्युक्तभाण्डं' पात्रनिर्योगोपकरणं वाशब्दस्य व्यवहितसम्बन्धतया रजोहरणादिकं वायदन्यत्र दुर्लभमुपकरणंतत् कश्चिद् 'निपुणः' बुद्धिमान् साधूनां समीपे दृष्ट्वा तदनुसारेण स्वयमपि कुर्यात्, कश्चित् तु तदेव कुत्रिकापणात् क्रीणीयात् ।। अनेन सम्बन्धेन कुत्रिकापणवक्तव्यतामभिधित्सुराह[भा.४२१३] कुत्तीयपरूवणया, उक्कोस-जहन्न-मज्झिमट्ठाणा। कुत्तिय भंडक्किणणा, उक्कोसं हुंति सत्तेव ॥ वृ-प्रथमतः कुत्रिकापणस्य प्ररूपणा कर्तव्या । तत उत्कृष्ट-जघन्य-मध्यमानि मूल्यस्थानानि वक्तव्यानि । एतावता मूल्येन कुत्रिकापणे भाण्डस्य-उपकरणस्य क्रयणं भवतीति निरूपणीयम्। “उक्कोसं" ति उत्कर्षतः सकलस्यापि श्रमणसङ्घस्य योग्या वस्त्र-पात्रप्रत्यवतारा ग्रहीतव्याः । "होतिसत्तेव"त्तिसप्तनिर्योगास्तेन ग्रहीतव्या भवन्ति, जघन्यतइति वाक्यशेषः।एषचूण्यभिप्रायः। विशेषचूर्ण्यभिप्रायेण तु-जघन्यत एक आत्मनो योग्यो निर्योगो ग्रहीतव्यः । उत्कर्षतस्तु सप्त निर्योगाः, तेषां च त्रय आत्मनो योग्याः चत्वार आचार्यप्रभृतीनां पूजनीयानां पूजायोग्याः । एष द्वारगाथासमासार्थः ॥अथैनामेव विवृणोति[भा.४२१४] कुत्ति पुढवीय सन्ना, जं विज्ञति तत्थ चेदनमचेयं । गहणुवभोगे य खमं, न तं तहिं आवणे नत्थि ॥ वृ-'कुः' इति पृथिव्याः संज्ञा, तस्याः त्रिकं कुत्रिकं-स्वर्ग-मर्त्य-पाताललक्षणं तस्यापणः-हट्टः कुत्रिकापणः किमुक्तं भवति? इत्याह-'तत्र' पृथिवीत्रये यत् किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणोपभोगक्षम विद्यते तत् 'तत्र' आपणे न नास्ति, "द्वौ नौ प्रकृत्यर्थं गमयतः" इति वचनाद् अस्त्येवेति भावः॥ अथोत्कृष्ट-मध्यम-जघन्यमूल्यस्थानानि प्रतिपादयति[भा.४२१५] पनतो पागतियाणं, साहस्सो होति इब्भमादीणं। उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ॥ वृ-प्राकृतपुरुषाणां प्रव्रजतमुपधि कुत्रिकापणसत्कः ‘पञ्चकः' पञ्चरूपकमूल्यो भवति । 'इभ्यादीनां' इभ्य-श्रेष्ठि-सार्थवाहादीनां मध्यमपुरुषाणां 'साहनः' सहसःमूल्य उपधिः । 'उत्तमपुरुषाणां' चक्रवर्ति-माण्डलिकप्रभृतीनामुपधि शतसहस्रमूल्यो भवति। एतच्च मूल्यमानं जघन्यतो मन्तव्यम्, उत्कर्षतः पुनस्रयाणामप्यनियतम् । अत्र चपञ्चकंजघन्यम्, सहस्रमध्यमम्, शतसहस्रमुत्कृष्टम् ॥ कथापुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं मूल्यं भवति? इत्युच्यते[भा.४२१६] विकिंतगंजघा पप्प होइ रयणस्स तविहं मुल्लं। कायगमासज्ज तहा, कुत्तियमुल्लस्स निकं ति॥ वृ-यथा 'रत्नस्य' मरकत-पद्मरागादेर्विक्रेतारं 'प्राप्य' प्रतीत्य त्विधं मूल्यं भवति, याशो मुग्धःप्रबुद्धोवा विक्रेता ताशमेवस्वल्पंबहुवामूल्यं भवतीति भावः; एवं क्रायकं ग्राहकमासाद्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516