Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक ः ३, मूलं-९४, [भा. ४२४०]
४५७
द्वितीयसमवसरणे एते सर्वेऽपिदोषास्तस्य साधोः कल्पन्ते; यथा अत्रैवसूत्रेऽभिहितम्-“कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम्" अतोऽपि ज्ञायते द्वितीयसमवसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते । एवं कश्चित् परो भणेत् तत्र सूरिराह-द्वयोरपि समवसरणयोर्न कल्पन्ते । भूयोऽपि परः प्राह-यद् यूयं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते, यतः 'श्रुतं' सूत्रमेव “कल्पते" इति ब्रुवाणमनुज्ञां सूचयति ॥अपि च[भा.४२४१] एवं सुत्तविरोधो, दोच्चम्मिं कप्पति त्ति जं भणितं ।
सुत्तनिवातो जम्मित, तं सुण वोच्छं समासेणं ।। वृ-एवं भवतां सूत्रेण समं विरोधः प्राप्नोति, यतः सूत्रे "द्वितीये समवसरणे कल्पते" इति भणितम् । अथ गुरुराह-सर्वमप्येतदाकाशरोमन्थनमिव लक्ष्यते, सूत्राभिप्रायमनवबुध्यैव यथातथाप्रलपनात् । कः पुनः सूत्राभिप्रायः ? इति चेद् अत आह-यस्मिन्नर्थे सूत्रस्य निपातःअवतारस्तं शृणु ‘समासेन' सङ्केपेण वक्ष्येऽहम् ॥ [भा.४२४२] समोसरणे उद्देसे, छव्विधे पत्ताण दोण्ह पडिसेधो।
. अप्पत्ताण उ गहणं, उवधिस्सा सातिरेगस्स ॥ वृ-प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम् । द्वितीयसमवसरणम् ऋतुबद्ध इति चैकार्थम् । तत्र उद्देशस्तद्विषयः षड्विधो निक्षेपः कर्तव्यः । “पत्ताण दुण्ह पडिसेहो" त्ति आर्षत्वा विभक्तिव्यत्यये 'द्वाभ्यां' क्षेत्र-कालाभ्यां प्राप्तानां वस्त्रदिग्रहणेप्रतिषेधोभवति, अप्राप्तानां तुसातिरेकस्योपधेर्ग्रहणं भवति इति नियुक्तिगाथासमासार्थः ॥अथ विस्तरार्थ उच्यते-तत्रोद्देशः षोढा-नामोद्देशःस्थापनोद्देशः द्रव्योद्देशः क्षेत्रोद्देशः कालोद्देशो भावोद्देशश्चेति।नामोद्देशोयस्योद्देश इति नाम क्रियते । स्थापनोद्देश उद्देशवतः पुरुषादेःस्थापना । द्रव्योद्देशं ज्ञ-भव्यशरीरव्यतिरिक्तं स्वयमेव भाष्यकृदाह[मा.४२४३] दव्वेणं उद्देसो, उद्दिस्सति जो वजेन दव्वेणं।
दव्वं वा उद्दिसते, दव्वभूओ तदट्ठी वा ॥ वृ- 'द्रव्येण' रजोहरणादिना यद् उद्देशः क्रियते स द्रव्योद्देशः । यो वा 'येन' सचित्तादिना द्रव्येणोद्दिश्यते, तत्र सचित्तेन यथा-गोभिर्गोमान्, तुरगैस्तुरगपति, गजैर्गजपतिरिति; अचित्तेन यथा-दण्डेन दण्डी, छत्रेण छत्री, कपालेन कपालीत्यादि; मिश्रेण यथा- शकटेन शाकटिकः, रथेन रथिक इत्यादि । द्रव्यंवा व्याधिप्रशमनं यदुद्दिशति, अमुकमौषधद्रव्यंभवता ग्रहीतव्यमिति। 'द्रव्यभूतोवा' ज्ञाता अनुपयुक्तो यद् अङ्ग-श्रुतस्कन्धादिकमुद्दिशति । 'द्रव्यार्थी वा' द्रव्यनिमित्तं धनुर्वेदादिकं यदुद्दिशति एष सर्वोऽपि द्रव्योद्देशः॥ [भा.४२४४] खित्तम्मि जम्मि खित्ते, उद्दिस्सति जो वजेन खेत्तेन ।
एमेव य कालस्स वि, भावो उ पसस्थमपसत्थो । वृ-क्षेत्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्ग-श्रुतस्कन्धादेरुद्देशः क्रियते व्यावण्यते वा; यो वा येन क्षेत्रेणोद्दिश्यते-अभिधीयते, यथा-भरते भवो भारतः, सुराष्ट्रायां भवः सौराष्ट्रः, मगधेषु भवो मागध इत्यादि । एवमेव च यस्मिन् काले अङ्गादिकमुद्दिश्यते, येन वा कालेनोद्दिश्यते, यथासुषमायां भवः सौषमः, शरदि जातः शारद इत्यादि; एष कालोद्देशः । भावोद्देशो द्विधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/85cde95138dd1cbdfb5bc3aa0d0a56e6041cce471b6244f3752505a693719b28.jpg)
Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516