Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 462
________________ ४५९ उद्देशक ः ३, मूलं-९४, [भा. ४२४९] कदाचिदध्वनिर्गताः साधवो विविक्ताआगच्छेयुः ततो द्वौ साधू एकस्य साधोः सम्पर्णप्रत्यवतारं प्रयच्छतः, तयोश्चात्मनः प्रत्येकं द्विगुणाः प्रत्यवतारास्तिष्ठन्ति । यद्येवं न गृह्णन्ति ततश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा भवन्ति। वर्षास्वतिरिक्तोपकरणग्रहणे कारणमुपदर्शयितुं दृष्टान्तमाह[भा.४२५०] दव्वोवक्खर-णेहादियाण तह खार-कडुय-भंडाणं । वासरत्त कुडुंवी, अतिरेगं संचयं कुणइ ।। वृ-द्रव्यं-हिरण्यादि, उपस्करः-सूर्यादि, खेहः-घृतं तैलं वा, आदिशब्दादेरण्डादितैलपरिग्रहः, क्षारः-वस्तुलादिलवणं वा, कटुकं-शुण्ठीविप्पल्यादि, भाण्डानि-घट-पिठरादीनि, अथवा कटुभाण्डंवेसण-मरिच-हिडप्रभृतिद्रव्यजातम् । एतेषां द्रव्योपस्करादीनां कुटुम्ब्यपि वर्षारात्रेऽतिरिक्तं सञ्चयं करोति ॥ किं कारणम् ? इति चेद् उच्यते-- [भा.४२५१] वणिया न संचरंती, हट्टा न वहंति कम्मपरिहानी । गेलनाऽऽएसेसुव, किं काहिति अगहिते पुट्विं ।। वृ-वर्षाकाले वणिजो ग्रामेषु क्रयविक्रयार्थं न सञ्चरन्ति, पत्तनेष्वपि वर्ष-वर्दलवसेन हट्ट न वहन्ति, अपि च यदि कुटुम्बी द्रव्योपस्करादीनामतिरिक्त सञ्चयं न कुर्यात् तत उत्पन्ने प्रयोजने क़यविक्रयार्थतेनआपणवीथ्यांगन्तव्यम्, ततश्चहलकर्षणप्रभृतीनांकर्मसंयोगानांपरिहानिर्भवति, ग्लानत्वेवा सञ्चाते 'आदेशेषुवा' प्राघूर्णकेष्वागतेष्वतिरिक्तसञ्चये पूर्वमगृहीते किं पथ्यभोजनप्राघूर्णकभक्त्यादिकं करिष्यति? ॥ [भा.४२५२] तह अन्नतित्थगा वि य, जो जोरिसो तस्स संचयं कुणति । इह पुन छण्ह विराधन, पढमम्मि य जे भणिय दोसा॥ वृ-'तथा' इति दृष्टान्तान्तरोपन्यासे । 'अन्यतीर्थिका अपि' सरजस्कादयः 'यो यादृशः' यस्य येनोपकरणेन प्रयोजनमित्यर्थः स तस्यातिरिक्त सञ्चयं वर्षासु करोति, यथा-सरजस्का रक्षायाः, दकसौकरिका मृत्तिकायाः, बोटिकाश्छगण-लवणयोरित्यादि। ‘इह' इति अस्मिन् पुनर्जनशासने यद्यतिरिक्तमुपकरणं न गृह्णन्ति ततः षण्णां जीवनिकायानां विराधना भवति । अथातिरिक्तोपकरणाभावाद्वर्षासूपधिंगृह्णन्तिततोयेप्रथमे समवसरणेउपकरणं गृह्णतो दोषा भणितास्तान् प्राप्नुवन्ति ।। कथं पुनः षन्नां कायानां विराधना भवति? इति उच्यते[भा.४२५३] रयहरणेनोल्लेणं, पमजणे फरुससाल पुढवीए। गामंतरित गलने, पुढवी उदगं च दुविहं तु॥ वृ. “फरुससाल" त्ति कुम्भकारशाला तस्यां वर्षासु स्थितानां द्वितीयरजोहरणाभावे यद् वर्षेणार्टीभूतं रजोहरणं तेनैव प्रमार्जने पृथिवीकायस्य विराधना । ग्रामान्तरं वा भिक्षाचर्यादिकार्येण "इंत" ति गच्छत आगच्छतो वा अन्तरा गाढतरं वर्षितुमारब्धे मलिनरजोहरणे परिगलति पृथिवीं 'द्विविधं च' भीमा-ऽऽन्तरिक्षभेदाद् द्विप्रकारमुदकं विराधयति ॥ [भा.४२५४] अहवा अंवीभूए, उदगं पणओ य तावणे अगनी । उल्लंडगबंध तसा, ठाणाइसुकेण व मजे ॥ वृ-अथवा द्वितीयरजोहणाभावे यदाऽऽर्द्र रजोहरणं शोषयति ततोऽवग्रहात् स्फिटति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516