Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 461
________________ ४५८ बृहत्कल्प-छेदसूत्रम् -२-३/९४ प्रशस्तोऽप्रशस्तश्च ।। उभयमपि दर्शयति[भा.४२४५] कोहाई अपसत्थो, नाणामादी य होइ उपसत्थो । उदओ वि खलु पसत्थो, तित्थकरा-ऽऽहारउदयादी॥ वृ-क्रोध-मानादिरौदयिको भावो अप्रशस्तो भावोद्देशः । ज्ञान-दर्शनादि क्षायोपशमिक औपशमिकः क्षायिको वा भावः प्रशस्तो भावोद्देशो भवति । 'उदयोऽपि' औदयिकभावोऽपि तीर्थकरा-ऽऽहारक-यशःकीत्यादिनामकर्मोदयरुपः प्रशस्तो भवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोभ्यात् । अत्र क्षेत्रोद्देशेन कालोद्देशेन चाधिकारः, शेषास्तु विनेयव्युत्पादनार्थमुच्चरितार्थसध्शाइतिकृत्वाप्ररुपिताः । तदत्रपरेण यद्उद्गमौद्देशिकंप्रतिपादितं तद् नाधिकृतमिति स्थितम् ॥अथ "प्राप्तानाम्" इति पदं व्याख्याति[भा.४२४६] खित्तेणय कालेण य, पत्ता-ऽपत्ताण होति चउभंगो। दोहि वि पत्तो ततिओ, पढमो बितिओ य एक्केणं॥ वृ-क्षेत्रेण कालेन च प्राप्ता-ऽप्राप्तानां चतुर्भङ्गी भवति-क्षेत्रेण प्राप्ता न कालेन १ काले प्राप्ता न क्षेत्रेण २ कालेन च प्राप्ताः ३ नापि क्षेत्रेण नापि कालेन ४। अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः, चतुर्थ पुनरुभाभ्यामप्यप्राप्तः । अथामूनेव भङ्गान् भावयति[भा.४२४७] वासाखित्त पुरोख, उडुबद्ध ठियाण खेत्तओ पत्तो। अद्धाणमादिएहिं, दुल्लभखित्ते व बीओ उ ।। वृ-वर्षाक्षेत्रे ‘पुरस्कृतं' प्रथमत ऋतुबद्धकाले स्थितानां क्षेत्रतः प्राप्ताः' इति प्रथमो भङ्गो भवति । इयमत्र भावना-ऋतुबद्धे चरमो मासकल्पो यत्र कृतः अन्यच्च वर्षावासप्रायोग्यं क्षेत्र नास्ति ततस्तत्रैव वर्षावासं कर्तृकामा आषाढपूर्णिमामद्याप्यप्राप्नुवन्तः क्षेत्रतः प्राप्ता न कालत इत्याद्यो भङ्गो भवति । अध्वप्रतिपन्नतादिभि कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रेऽपान्तराल एव आषाढपूर्णिमा साता एवं द्वितीयो भङ्गो भवति ॥ [भा.४२४८] आसाढपुनिमाए, ठिया उ दोहिं पिहोति पत्ता उ । तत्थेव य पडिसिज्झइ, गहणं न उ.सेसभंगेसु ॥ वृ- वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थितास्ते द्वाभ्यामपि क्षेत्र-कालाभ्यां प्राप्ता भवन्ति । आषाढपूर्णिमामप्राप्तानामन्तरा अध्वनिवर्तमानानांऋतुबद्धे मासकल्पेन वाअन्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । अत्र च 'तत्रैव' तृतीयभङ्ग एव वस्त्रदीनां ग्रहणं प्रतिषिध्यते, न 'शेषेषु' प्रथम-द्वितीय-चतुर्थभङ्गेषु, एकतरेण द्वाभ्यां वा अप्राप्तत्वात् ।। एतेन “दोण्ह पडिसेहो' त्ति व्याख्यातम् । अथ “अप्पत्ताण तु गहणं, उवहिस्सा साइरेगस्स" त्ति पश्चा) व्याचिख्यासुराह[भा.४२४९] दुण्ह जओ एगस्सा, निष्फज्जति जं व होति वासासु। अग्गहणम्मि विलहुगा, तस्थ वि आणादिणो दोसा ॥ वृ-इह वर्षाकाले क्षेत्र-कालाभ्यामप्राप्तैरेव सातिरेक उपधिग्रहीतव्यः । कियप्रमाणः ? इति चेद्उच्यते-द्वयोर्जनयोः सम्बन्धिना यावतोपकरणेनैकस्यसाधोर्योग्यः परिपूर्णप्रत्यवतारोऽतिरिक्तो निष्पद्यते, यच्च वर्षासु वर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति, इयप्रमाणं ग्रहीतव्यम् । इदमुक्तं भवति-एकैकः साधुरर्धतृतीयान् प्रत्यवतारान् गृह्णाति । किं कारणम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516