Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 459
________________ ४५६ बृहत्कल्प-छेदसूत्रम् - २-३/९४ इति । अतो वर्षाकालाख्ये प्रथमे 'ओसरणे' समवसरणे अग्राह्यं तद् वस्त्रम्, द्वितीये तु ऋतबद्धाख्ये ग्राह्यमिति निरूपणाय इदं समवसरणसूत्रमारभ्यते ॥ [भा.४२३६ ] अहवा वि सउवधीओ, सेहो दव्वं तु एयमक्खायं । तं काले खित्तम्मिय, गज्झं कहियं अगज्झं वा ॥ वृ- अथवा पूर्वसूत्रे सोपधिकशैक्षलक्षणं द्रव्यमेतदाख्यातम् । 'तद्' द्रव्यं कुत्र काले क्षेत्रे वा ग्राह्यम् ? कुत्र वा अग्राह्यम ? इत्यधुना प्रतिपाद्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- "नो कप्पइ "त्ति आर्षत्वादेकवचनम् । नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमसमवसरणेवर्षाकाले उद्देश : - क्षेत्र - कालविभागस्तं प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि 'चेलानि' वस्त्राणि प्रतिग्रहीतुम् । किमुक्तं भवति ? - इह साधवो यत्र वर्षावासं चिकीर्षवस्तत् क्षेत्रं यावद् नाद्यापि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि प्रतिग्रहीतुम् । अथ वर्षावासप्रायोग्यं क्षेत्रं प्राप्ताः आषाढपूर्णिमा च सञ्जाता तत इयन्तं क्षेत्र- कालिवभागं प्राप्तानि वस्त्राणि न कल्पन्ते । द्वितीयसमोसरणोद्देशप्राप्तानि तु कल्पन्ते । इति सूत्रसङ्क्षेपार्थः ॥ साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह [भा. ४२३७] पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स । तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ।। सूरिपरम्परायातमनन्तरोक्तमर्थमनवबुध्यमानः प्रेरयति-ननु च वृ- इह परः प्रस्तुतसूत्रस्य सूत्रे "उद्देसपत्ताइं" ति यत् पदं तस्यायमर्थ उद्देशनमुद्देशः - औद्देशिकाख्यो द्वितीय उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतच्च न युज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य अवशेषाः आधाकर्मादयः पञ्चदशोद्गमदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते ।। पर एव सूरीणामभिप्रायमाशङ्कय परिहरति [भा. ४२३८] उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता । उप्पादनादि सेसा, तम्हा कप्पंति किं दोसा ।। वृ- अथ 'एकग्रहणे तज्जातीयग्रहणम्" इति न्यायाद् उद्देशग्रहणेन सर्वेऽप्युद्गमदोषा गृहीताः; एव तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते ? येनोद्गमदोषा एव गृह्यन्ते ॥ पर एवाचार्यस्याशयमाशङ्कमान इदमाह [भा. ४२३९] अहवा उद्दिस्स कता, एसणदोसा वि होंति गहिता तु । आदी अंतरगहणे, गहिया उप्पादना वि तहिं ॥ वृ- अथवा यस्मादेषणादोषा अपि साधून् 'उद्दिश्य' प्रणिधाय कृताः अत उद्देशग्रहणेन तेऽपि गृहीताः । एवं च आद्यस्य - उद्गमदोषकलापस्य अन्त्यस्य च एषणादोषजालस्य ग्रहणे उत्पादनादोषा अपि गृहीता अत्र मन्तव्याः, “आद्यन्तग्रहणे मध्यस्यपि ग्रहणम्" इति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् । एवमाचार्यस्याकूतमाशङ्कय दूषणान्तरमाह[भा. ४२४० ] एए अ तस्स दोसा, उडुबद्धे जं च कप्पते घित्तुं । कोई भणिज दो वि, न कप्पति सुतं तु सूएति ।। वृ-यद्येवं सामथ्यार्कषप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमवसरणे प्रतिषिद्धास्तर्हि ऋतुबद्धाख्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516