Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 453
________________ ४५० बृहत्कल्प-छेदसूत्रम् -२-३/९२ - यथा गृहस्थेनात्मनोऽर्थाय आधाकर्म कृतं तद् 'इतरेषां' सयंतानां परिभोक्तुं कल्पते, 'इति' अमुनैव ज्ञापकेन अस्माकमपि स शैक्षो गृहस्थ एवेति कृत्वा 'तेन परिगृहीतं' ममेदमिति बुद्धया स्वीकृतम् 'इतरदपि संयतनिर्दिष्टमपि कल्पते 'इतरेषां' साधूनाम् । ये पुनराचार्या अविशोधिकोटिनिर्दिष्टं संछोभेऽपि कृते नेच्छन्ति ते इदं कारणमुपवर्णयन्ति [भा. ४२०८] सहसानुवादिनातेन केइ निदिट्ठके न इच्छंति । अनिदिट्ठे पुन छोभं, वदंति परिफग्गुमेतं पि ॥ वृ- यथा सहस्रानुपाति विषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुषं मारयति, एवमाधाकर्माSप्युपभुज्यमानं सहस्रन्तरितमपि साधुं संयमजीविताद् व्यपरोपयतीति सहस्रानुपातिविपज्ञातेन केचिदाचार्या साधुनिमित्तं निर्दिष्टे संछोमेऽपि कृते नेच्छन्ति, अनिर्दिष्टे पुनः छोभं कृत्वा ददानस्य कल्पनीयं वदन्ति एतदपि 'परिफल्गु' निस्सारं मन्तव्यम् ॥ कथम् ? इत्याहएवं पि सघरमीसेण सरिसगं तेन फग्गुमिच्छामो । दुविधं पिततो गहियं, कप्पति रतणुच्चओ नातं ।। [भा. ४२०९] वृ-यत् ते आचार्यदेशीया अनिर्दिष्टं संछोभे कृते कल्पनीयं ब्रुवते एतदपि स्वगृहयतिमिश्रेण सध्शम्, तेन कारणेन परिफल्गु वयमिच्छामः । त्वदीयाभिप्रायेण ह्येतदपि स्वगृहयतिमिश्रमिति कृत्वा अकल्पनीयं प्राप्नोति, तच्चनिष्टम्; ततः 'द्विविधमपि' निर्दिष्टा ऽनिर्दिष्टभेदाद् द्विप्रकारमपि तेन शैक्षेण संछोभकरणेन 'अवगृहीतम्' आत्मीकृतं सत् कल्पते । तथा चात्र 'रलोच्चयः' मेरुमहीधरः 'ज्ञातं' दृष्टान्तः । यथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णीभवति, एवं शैक्षगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति । अपि च [भा. ४२१०] जह उ कडं चरिमाणं, पडिसिद्धं तं हि मज्झिमोग्गहिपं । पडिवन्नपंचजामे, कप्पति तेसिं तहऽन्नेसिं ॥ वृ-यथा 'चरमाणां' वरमतीर्थकृर्तीर्थवर्तिनां पञ्चयामिकानां साधूनामर्घाय किमपि वस्त्रं वा पात्र वा कृतं तच्च तैः 'प्रतिषिद्धं न गृहीतम्, 'मध्यमैश्च' श्री पार्श्वनाथतीर्थवर्तिसाधुभिश्चतुर्यामिकैस्तत् प्रतिगृहीतम् । ते च चतुर्यामिकाः पञ्चयामधर्मं प्रतिपन्नाः ततस्तद्वस्त्रादिकं तेषामन्येषामपि पश्यामिकानां परिभोक्तुं यथा कल्पते, एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं शैक्षगृहस्थेनात्मार्थीकृतं सद् दीयमानं कल्पते । अथ संयोगद्वारं व्याख्याति [भा. ४२११] उग्गम-विसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । पत्तेग-मीसिगासु य, निद्दिष्ट्ठ तधा अनिद्दिट्ठा ।। वृ- इह उद्रमकोटिभेदाः- आधाकर्म- मिश्रजातादयस्तेषां 'द्विकादिसंयोगतः' द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति, ते च सुगमतया स्वयमभ्युह्य मन्तव्याः; एवं विशोधिकोटिभेदानामपि क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नास्तथैव बहवो भङ्गकाः; एते च प्रत्येकभङ्गका उच्यन्ते । एतेषामेवोद्रमकोटिभेदानां विशोधिकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पन्ना एवमेव बहवो भङ्गका भवन्ति, तेच मिश्रभङ्गका भण्यन्ते । सर्वेऽप्येते द्विधा - निर्दिष्टा अनिर्दिष्टाश्च । एतासु प्रत्येक-मिश्रासु भङ्गपङिषु कल्प्या-ऽकल्प्यविभागः प्रागुक्तप्रकारेणावसातव्यः ॥ अथ वक्ष्यमाणार्थसम्बन्धनाय प्रस्तावनां करोति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516