Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -२-३/८८
वृ- 'तस्य' जिनकल्पिकस्य शय्या 'गुप्ता वा' घनकुडय- कपाटयुक्ता अगुप्ता वा भवेत्, अतः सन्दंशकच्छिद्रेण 'हिमादिकं' शीत-वात-सर्पादिकम् 'एति' आगच्छति, ततस्तस्य रक्षणार्थं ‘स्वस्तिककृताभ्यां' स्वस्तिकाकारनिवेशिताभ्यां हस्ताभ्यां द्वावपि वस्त्रस्य कोणौ गृहीत्वा उत्कुटक एव स स्वपिति वा ध्यायति वा । तत्र प्रायेण धर्म जागरिकया जागर्त्ति परं केचिदाचार्या ब्रुवतेउत्कुटक एव तृतीये यामे क्षणमात्रं स्वपितीति ॥ अथ गच्छ्वासिनां कल्पप्रमाणमाह[भा. ३९६९ ] कप्पा आयपमाणा, अड्डाइज्जा उ वित्थडा हत्था । एयं मज्झिम मानं, उक्कोसं होंति चत्तारि ॥
४०४
वृ- कल्पाः 'आत्मप्रमाणाः' सार्धहस्तत्रयप्रमाणायामाः, अर्धतृतीयांश्च हस्तान् 'विस्तृताः' पृथुला विधेयाः, एतद् मध्यमं 'मानं' प्रमाणं भवति । उत्कर्षतो दैर्घ्येण चत्वारो हस्ताः । एतदादेशद्वयं मन्तव्यम् ॥ अत्रैव कारणमाह
[भा. ३९७०] संकुचिय तरुण आयप्पमाण सुयणे न सीयसंफासो । दुहओ पेल्लण थेरे, अनुचिय पाणाइरक्खाऽऽया ।।
वृ-यो भिक्षुस्तरुणो बलवान् स सङ्कुचितपाद स्वप्तुं शक्नोति, तस्य तथा स्वपने शीतस्पर्शोन भवति, अतस्तस्य आत्मप्रमाणाः कल्पा अनुज्ञाताः । यस्तु स्थविरो वयसा वृद्धः स क्षीणबलत्वान्न शक्रोति सङ्कुचितपादः शयितुम्, अतस्तस्यानुग्रहार्थं दैध्येर्णात्मप्रमाणादूर्द्धव षडङ्गुलानि विस्तरतोऽप्यर्धतृतीयहस्तप्रमाणादभ्यधिकानि षडङ्गुलानि । एवं विधीयमाने गुणमुपदर्शयति"दुहओ पेल्लण" त्ति शिरः पादान्तलक्षणयोर्द्वयोरपि पार्श्वयोर्यत् कल्पस्य 'प्रेरणम्' आक्रमणं तेन स्थविरस्य शीतं न भवति । 'अनुचितः' अभावितः शैक्ष इत्यर्थः, तस्यापि स्वपनविधावनभिज्ञस्य कल्पप्रमाणमेवमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्षा कृता भवति, न मण्डूकप्लुत्या कीटिकादयः प्राणिनः प्रविशन्तीति भावः, आदिशब्दाद् दीर्घजातीयादयोऽपि न प्रविशन्ति, तेनात्मनोऽपि रक्षा कृता भवति ॥
[भा. ३९७१]
पत्ताबंधपमाण, भाणपमाणेन होइ कायव्वं । चउरंगुलं कमंता, पत्ताबंधस्स कोणा उ ॥
वृ- पात्रकबन्धप्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । यदि मध्यमं जघन्यं वा पात्रं भवति तदा पात्रकबन्धोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः । किं बहुना ? यथा ग्रन्थौ कृते सति पात्रकबन्धस्य कोणाश्चतुरङ्गुलमूर्द्धव क्रामन्तो भवन्ति, ग्रन्थेरतिरिक्ताश्चतुरङ्गुला अञ्चला यथा भवन्तीति भावः, तथा पात्रकबन्धप्रमाणं विधेयन् ।।
[भा. ३९७२] रयताणस्स पमाणं, भाणपमाणेन होति कायव्वं । पायाहिनं करिंतिं, मज्झे चउरंगुलं कमति ॥
वृ- रजस्त्राणस्य प्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । कथम् ? इत्याह-प्रादक्षिण्येन वेष्टनं कुर्वत् पात्रस्य मध्ये 'चतुरङ्गलं' चत्वार्यङ्गुलानि यथा रजस्त्रणमतिक्रामति तथा रजस्त्राणप्रमाणं विधेयम् ।। पटलकानां प्रमाणमाह
[भा. ३९७३] तिविहम्मि कालष्ठेए, तिविहा पडला उ होंति पायस्स । गिम्ह - सिसिर- वासासुं, उक्कोसा मज्झिम जहन्ना ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516