Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 450
________________ उद्देशकः३, मूलं-९२, [भा. ४१९४] ४४७ गच्छति । एवं दिवसे दिवसे करोति । तस्मिंश्च दिवसे स यक्षो नोपागमत् । द्वितीये च दिवसे कोऽपि सलिङ्गावधावी चौर्यं कर्तुकामस्तस्मिन्नेव ग्रामे तस्या एव तरुण्या गृहे तथैव द्वारमूले प्रसुप्तः, यक्षश्च तद्दिवसमागतः । यस्मिन् दिवसे यक्षो नायातः ततो यो द्वितीयो दिवसस्तत्र • निशायामागतस्य यक्षस्य पार्थे पृच्छा कृता-कल्पे किं नागतोऽसि ? । यक्षः प्राह-अत्र कल्ये यतिरासीत् तेन कारणेन अहमत्र नायातः, अपि च साधुसम्बन्धिना तेजसैव तमुल्लाङ्य गन्तुंन शक्यते । सा प्राह-किमेवं मृषा भाषसे ? अयमपि तावदन्यः साधुरिमूले सुप्तस्तिष्ठति अत एनमुलक्ष्य कथमद्यागतोऽसि? इति । यक्षः प्राह-एष चारित्रं प्रति विपरिणतश्चौर्यं कर्तुकामः, अतो यतिवेषेण चौरोऽयं मन्तव्यः यस्तव अद्य द्वारे वसतीति ॥ तदेवमनेन दृष्टान्तेन प्रव्रज्यायामभिमुखः प्रव्रजितएवोच्यते। उक्तंचनैश्चयिकनयवक्तव्यतामङ्गीकृत्य भगवत्याम्-नेरईए नंमंते! नेरईएसुउववज्जइ ? अनेरईए नेरईएसु उववज्जइ? गोयमा! नेरईए नेरईएसु उववज्जइ, नो अनेरईए नेरईएसु उववजइ । अथ रजोहरणादिपदानि व्याचष्टे[भा.४१९५] रयहरणेण विमज्झो, गुच्छगगहणे जहन्नगहणंतु। भवति पडिग्गहणे, गहणं उक्कोसउवधिस्स ॥ वृ- रजोहरणग्रहणेन विमध्यमोपधिर्ग्रहीतः, गोच्छकग्रहणेन जधन्योपधिग्रहणं भवति, प्रतिग्रहग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम् ॥ [भा.१९६] पडिपुन्ना पडुकारा, कसिणग्गहणेण अप्पणो तिन्नि। . पुट्विं उवहितोपुन, जो पुव्वं दिक्खितो आसी॥ वृ-कुत्स्नवस्त्रग्रहणेनेदमुक्तं भवति-तेनप्रव्रजता आत्मनो योग्यास्त्रयः प्रत्यवताराः प्रतिपूर्णा ग्रहीतव्याः । पूर्वमुपस्थितः पुनः स उच्यते यः पूर्वं दीक्षित आसीत् ॥ एष सूत्रार्थः । अथ नियुक्तिविस्तरः[भा.४१९७] सोऊण कोइ धम्मं, उवसंतो परिणओय पव्वजं । पुच्छति पूयं आयरिय उवज्झाए, पवत्ति संघाडए चेव ॥ वृ-इह कश्चित्तथारुपाणां स्थविराणामन्तिके धर्मं श्रुत्वा 'उपशान्तः प्रव्रज्यायांचपरिणतः। ततःसआचार्यान् पृच्छति-आदिशत क्षमाश्रमणाः! किंमयाकर्तव्यम्? ।सूरयस्तस्य सारसम्भवं ज्ञात्वाब्रुवते-“पूर्य" ति चैत्यानां विपुलां पूजां कुरु श्रमणसङ्घस्य च वस्त्रदिभिप्रतिलाभनं कुरु। एवमुक्ते स तथैव चैत्यानां श्रमणसङ्घस्य च पूजां करोति । अथ श्रमणसङ्घन पूजयितुमीशस्तत आचार्यस्योपाध्यायस्य प्रवर्तिनः सङ्घाटकसाधोश्च वस्त्रादिभिः पूजा विधातव्या ।। इदमेव भावयति[भा.४१९८] नंतग-घत-गुल-गोरस, फासुग पडिलाभणं समणसंधे। असति गणि-वायगाणं, तदसति सव्वस्स गच्छस्स॥ वृ-सप्रविव्रजिषुः श्रमणसवस्य सकलस्यापि 'प्राशुकैः' शुद्धैर्वस्त्र-घृत-गुड-गोरसादिभिर्द्रव्यैः प्रतिलाभनांकरोति। अथ नास्त्येतावत्सारंततोयेगणिनः-आचार्यायेवावाचकाः-उपाध्यायास्तेषां सर्वेषामपि करोति । अथ नास्त्येतावाती शक्तिस्ततो यस्मिन् गच्छे असौ प्रव्रजिष्यति तस्य सर्वस्यापि प्रतिलाभनां विद्यत्ते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516