Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं-९१, [भा. ४१५१]
४३९ वक्तव्यम्। 'नवरं केवलंपुनरत्र नानात्वं' विशेषोवस्त्रग्रहणंताभिर्निश्रया कर्तव्यम्नपुनरनिश्रया। निश्रा नाम-संज्ञातकादिना वस्त्र दीयमानं प्रवर्तिन्या निवेदयति, प्रवर्तिनी गणधरस्य निवेदयति, ततो गणधरः स्वयमागत्य परीक्षाशुद्धं कृत्वा गृह्णाति । अथ नास्ति तत्र प्रवर्तिनी ततस्तद् वस्त्र वर्णेन रूपेण चिह्नेन चोपलक्ष्य गणधरस्य कथयति, सचागत्य स्वयं गृह्णाति। एतन्निश्राग्रहणमुच्ये।। [भा.४१५२] आयरिओ गणिणीए, पवत्तिणी भिक्खुणीण न कधेति।
गुरुगा लहुगा लहुगो, तासिं अप्पडिसुणंतीणं॥ वृ-आचार्य एतत् सूत्रं गणिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः । 'तासां' भिक्षुणीनामप्रतिशृण्वतीनां मासलघु।।अथ स्वयं वस्त्रग्रहणेदोषानाह[भा.४१५३] मिच्छत्ते संकादी, विराधना लोभे आभियोगे य।
तुच्छा न सहति गारव, भंडण अट्ठाणठवणंच॥ वृ-पुरुषेणसंयत्याःवस्त्रदीयमानं दृष्ट्वा अभिनवधर्माणोमिथ्यात्वंगच्छेयुः 'दुईष्टधर्माणोऽमी' इति। शङ्कादयश्रव दोषा भवन्ति । 'विराधनाच' संयमा-ऽऽत्मविषया। “लोभे' त्ति स्तोकेनापि वस्त्रादिप्रदानेन स्त्री प्रलोभ्यते । “आभियोगे" ति आभियोगिकवस्त्रप्रदानेन कश्चित् कार्मणं कुर्यात् । स्त्री च प्रायेण तुच्छा भवति, तुच्छत्वेन च “गौरवं" लब्धिमाहात्म्यं न सहते, ततश्च 'भण्डनं कलहो अस्थानस्थापनं च भवतीति सङ्ग्रहगाथासमासार्थः।। अथैनामेव विवरीपुराह[भा.४१५४] इत्थी विताव देंती, संकिज्जइ किं केनति पयुत्ता ।
किं पुन पुरिसो देतो, परिजुन्नाई पि जुनाए। वृ. 'स्त्री' अविरतिका साऽपि वस्त्रं संयत्वाः प्रयच्छन्ती शङ्कयते- किं केनचित् कामुकेन प्रयुक्ता सती प्रयच्छति? उत स्वयमेव धर्मार्थम्? इति; किं पुनः पुरुषः परिजीर्णान्यपि वस्त्रणि जीर्णाया अपि आर्थिकायाः प्रयच्छन् ? स सुतरां शक्यते इति भावः । तत्र शक्यां चतुर्गुरु । चतुर्यार्थभेवेति निशङ्कितेमूलम् । एवं मिथ्यात्वं शङ्कादयश्च दोषा भवेयुः। विराधना च संयमाऽऽत्मविषया अभ्युह्य वक्तव्या॥ लोभद्वारमभियोगद्वारं चाह[भा.४१५५] नामिज्जइ थोवेणं, जच्चसुवन्नं व सारणी वा वि ।
अभियोगियवत्थेण व, कड्डिजइ पट्टए नातं ॥ वृ-यथा जात्यं सुवर्णं सारणी वा' कुल्या स्तोकेनापि प्रयत्नेन नाम्यते तथासंयत्यपिस्तोकेनापि वस्त्रादिप्रदानेन नाभ्यते।यद्वातद्वस्त्र केनापि विद्या-मन्नादिबलेनाभियोगिकं-वशी-करणकर्मक्षम कृतमस्ति ततस्तेन सा ‘कृष्यते' येन कार्मण कृतं तदभिमुखं नीयते । पट्टकेन चात्र ‘ज्ञातं दृष्टान्तो भवति, स च यथा प्रथमोद्देशके ॥ अथ गौरवादिद्वारत्रयं युगपदाह- . [भा.४१५६] वत्येहि वच्चाणी, दाएंती वा वि उयध वत्थे मे ।
मच्छरियाओ बेंती, धिरत्यु वत्थाण तो तुझं॥ . [भा.४१५७] हिंडामो सच्छंदा, नेव सयं गेण्हिमो य पवयामो ।
नयजंजनो वियाणति, कम्मंजाणामो तं काउं॥ वृ-काचिदार्यिका तुच्छतया गौरवमसहिष्णुर्वस्त्रभ्योव्रजन्ती आत्मानंख्यापयति-अहमीशानि ईशानि वस्त्राणि गृहीत्वासमागमिष्यामि; यद्वा स्वयमानीतानिवस्त्रणिदर्शयन्तीब्रूयात्-“उयह"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3c599d31597639216d602db286ae0463617d0253ab87f75ba5796e3785685801.jpg)
Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516