Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं ९०, [भा. ४१४२ ]
बितियपदे असतीए, उवस्सए वा अहव जुन्ना ॥
वृ- यदि तया प्रतिसेव्यमानया स्वादितं ततो मूलम् । वाशब्द उत्तरापेक्षया विकल्पार्थः । "जाव थण'' त्ति पश्चाद् व्याख्यास्यते । गर्भमाहूतं दृष्ट्वा स्वादयति च्छेदः । अपत्यं जातं दृष्ट्वा 'सहायकं मे भविष्यति' इति स्वादयन्त्याः षड्गुरवः । यया तु न स्वादितं तस्याः परप्रत्ययनिमित्तं यत् किमपि यथालघु प्रायश्चित्तं दातुं युज्यते तद् दातव्यम् । “जाव थण” त्ति यावत् तस्या अपत्यं स्तन्यपानोपजीवि भवति तावत् तपोर्हं प्रायश्चिततं न दातव्यम् । द्वितीयपदे अवग्रहानन्तकस्याभावे उपाश्रये वा तिष्ठन्ती अथवा 'जीर्णा' स्थविरा सा संयती अतोऽवग्रहानन्तकं न गृह्णात्यपि ॥ अथास्या एव पूर्वार्धं व्याख्याति
[भा. ४१४३]
४३७
सेविते अनुमए, मूलं छेओ तु डिंडिमं दिस्स ।
होहिति सहातगं मे, जातं दङ्कण छग्गुरुगा ।।
वृ-सेव्यमानया यद्यनुमतं ततो मूलम् । अथ 'डिण्डिमं' गर्भं दृष्ट्वा हर्षमुद्वहति छेदः । पुत्रभाण्डं दृष्ट्वा 'सहायकं मे भविष्यति' इत्यनुमन्यते षड्गुरवः ॥
[मा. ४१४४ ]
तेन परं चउगुरुगा, छम्मासा जा न ताव पूरिति । जा तु तवारिह सोही, अणवत्थणिते न तं देंती ।।
वृ- 'ततः परं' जन्मानन्तरं यावत् षण्मासा न पूर्यन्ते तावद् यत्र यत्र स्वादयति तत्र तत्र चतुर्गुरवः । याच तस्याः तपोर्हा शोधिरुक्ता ताम् 'अनपस्तनिते' स्तन्यपानादनुपरते अपत्यभाण्डे न ददति, मा स्तन्यं न भविष्यतीति कृत्वा ।।
[भा. ४१४५ ]
मेग आहितेय सातिज्जियं जति न तीए ।
परपच्चया लहुसगं, तहा वि से दिंति पच्छित्तं ॥
वृ- मैथुने प्रतिसेव्यमाने गर्भे च आहूते यद्यपि तया न स्वादितं तथापि 'परप्रत्ययार्थं मा भूदगीतार्थानामप्रत्यय इत्यर्थः यथालघुकं प्रायश्चित्तं तस्याः सूरयः प्रयच्छन्ति ॥
1
अथ यस्तस्याः खिंसां करोति तस्य प्रायश्चित्तमाह
[भा. ४१४६ ] खिसाए होंति गुरुगा, लज्जा निच्छक्कतो य गमनादी । दप्पकते वाऽऽउट्टे, जति खिंसति तत्थवि तहेव ॥
वृ-यस्तस्याः 'खिंसां' 'विध्वस्तशीलत्वाद् मलिना इयम्' इत्येवं करोति तस्य संयतस्य संयत्या. वा चतुर्गुरुकाः प्रायश्चित्तम् । सा च खिंसिता सती लज्जया प्रतिगमनादीनि कुर्यात्, निच्छक्का वानिर्लज्जा वा भवेत्, तत एव सर्वजनप्रकटमात्मानं प्रतिसेवयेत् । अथ दर्पतस्तया मैथुनं प्रतिसेवितं परं पश्चाद् आवृत्ता-आलोचना- प्रायश्चित्तप्रतिपत्त्यादिना प्रतिनिवृत्ता तामपि यः खिंसति तस्यापि तथैव चतुर्गुरु ॥ किं कारणम् ? इति चेद् अत आह
[ भा. ४१४७ ] उम्मग्गेन वि गंतुं, न होति किं सोतवाहिणी सलिला । काण फुंफुगा विय, विलीयते हसहसेऊणं ॥
वृ- उन्मार्गेणापि गत्वा ‘सलिला' नदी पश्चात् किं ‘श्रोतोवाहिनी' मार्गगामिनी न भवति ? भवत्येवेति भावः। ‘फुम्फुका' करीषाग्नि सोऽपि च “हसहसेऊणं” ति जाज्वलित्वा भृशमुद्दीप्तो भूत्वेत्यर्थः कालेन गच्छता 'विलीयते' विलयं याति । उपनययोजना सुगमा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516