Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३६
बृहत्कल्प-छेदसूत्रम् -२-३/९०
वृ- 'हुं हुं विध्वस्तशीलेयम्' इत्येवमस्याः 'अवर्णम्' अवज्ञां वा मा कार्षु, किं न श्रुतं भवद्भिः केशि- सत्यकिनोर्जन्म ? यथा - ती आर्यिकाभ्यां पुरुषसंवासमनन्तरेणापि कथञ्चिदुपात्तबीजपुद्गलाभ्यां प्रसुषुवाते, न च 'तयोः' आर्यिकयोर्व्रतभङ्गः सञ्जातः, विशुद्धपरिणामत्वात् । अनयोः कथानके यथाक्रमं पञ्चकल्पा-SSवश्यकटीकाभ्यामवसातव्ये ॥
[ भा. ४१३८] अविय हु इमेहि पंचहि, ठाणेहिं थी असंवसंती वि। पुरिसेन लभति गब्धं, लोएण वि गाइयं एयं ।।
वृ- अपि चेत्यभ्युच्चये, 'हुः' निश्चितमेतत्-एतैः पञ्चभि स्थानैः स्त्री पुरुषेण सममसंवसन्त्यपि गर्भं लभते । न केवलमसमाभिरेवैतदुच्यते किन्तु लोकेनापि 'गीतं ' संशब्दितमेतत् ॥
तान्येवोपदर्शयति
[भा. ४१३९] दुव्वियड - दुन्निसन्ना, सयं परो वा सि पोग्गले छुभति । वत्थे वा संसट्टे, दगआयमनेन वा पविसे ॥
वृ- विवृता - अनावृता, सा चोत्तरीयापेक्षयाऽपि स्याद् अतो दुःशब्देन विशेष्यते-दुष्ठु विवृता दुर्विवृता-परिधानवजितेत्यर्थः, एवं दुर्विवृता सती दुर्निषन्ना दुष्ठु - विरूपतयोपविष्टा दुर्विवृत-दुर्निषन्ना सा शुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसन्नस्थान् सङ्ग्रह्णीयात् १, स्वयं वा पुत्रार्थितया शीलरक्षकतया च शुक्रपुद्गलान् योनावनुप्रवेशयेत् २, 'परो वा' श्वश्रूप्रभृतिकः पुत्रार्थमेव "से" तस्या योनौ प्रक्षिपेत् ३, वस्त्रं वा शुक्रपुद्गलसंसृष्टम् उपलक्षणत्वात् तथाविधमन्यदपि केशिमातुः केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं तद अनुप्रविशेत्, अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत् ४, दकं पानीयं तेन वा तस्या आचमन्त्याः पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला अनुप्रविशेयुः ५ । एवं पुरुषसंवासमन्तरेणापि गर्भसम्भवे भवन्तो नास्या अवज्ञां कर्त्तुमर्हन्ति । एवं प्रज्ञाप्य तेषां श्राद्धानां गृहे तां स्थापयन्ति । गता ज्ञातविषया यतना । अथाज्ञातविषयां तामाह
[भा. ४१४०] अविदिय जन गब्भम्मि य, सन्नीमादीसु तत्थ वऽन्नत्था । लाढेंति फासुएणं, लिंगविवेगो य जा पिबति ॥
वृ- जनेनाविदितो यो गर्भस्तत्र ये माता- पितृसमानाः संज्ञिनः आदिशब्दाद् यथाभद्रका वा तेषां गृहेषु तत्र वा अन्यत्रवा ग्रामे स्थापयन्ति । ते च संज्ञिप्रभृतयस्तां प्राशुकेन प्रत्यवतारेण ‘लाढयन्ति' यापयन्तीत्यर्थः । यावच्चापत्यभाण्डं स्तन्यं पिबति तावत् तया लिङ्गविवेकः कर्तव्यः । [भा. ४१४१] एएसिं असतीए, सन्नायग- नालबद्धकिढ फासुं । अन्नो वि जो परिणतो, स सिद्धवेसेतरी गारी ॥
वृ- 'एतेषां ' संज्ञिप्रभृतीनामभावे ये तस्याः संयत्याः संज्ञातकास्तेषां गृहेषु स्थाप्यते । संज्ञातकगृहाणाम् अभावे यः संयतो नालबद्धः सोऽपि यदि किढः - वृद्धस्तदाऽसौ श्राद्धवेषं कार्यते, इतराऽपि गृहिलिङ्गं करोति, ततस्तौ प्राशुकाहारेण यापयन्तौ तिष्ठतः । नालबद्धस्याभावे अन्योऽपि यो वयसा परिणतः स सिद्धपुत्रवेषं कार्यते, इतरा अगारीवेषं करोति ॥
अत्रेयं प्रायश्चित्तमार्गणा
[भा. ४१४२ ] मूलं वा जाव थणा, छेदो छग्गुरुग जं चऽधालहुअं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5e9e4896bce970a85f04728503e5ad7f691b27bab97ab7abc26b996cf4e46791.jpg)
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516