Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 447
________________ ४४४ बृहत्कल्प-छेदसूत्रम् -२-३/९१ . वृ-अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः-आचार्यादीनां गणावच्छेदिकान्तानामभोवे प्रवर्तिन्या निश्रया स्थविराआर्थिकाः स्वयंवस्त्रग्रहणं कुर्वन्ति।तरुणीनांतुसर्वथैव वस्त्रस्याग्रहणमुत्सर्गतः, प्रवर्तिनी स्वयं तत्र गत्वा आनयति ॥ इदमेव भावयति[भा.४१८०]साहू जया तत्थ न होज कोई, छंदेज्ज नीया तरुणी जया य। पवत्तिनी गंतु सयं तु गेण्हे, आसंकभीया तरुणी न नेति ॥ वृ- यदा तत्राचार्यादीनां मध्यात् कोऽपि गीतार्थः साधुर्न भवति, यदा च 'निजकाः' संज्ञातकास्तरुणीः 'छन्दयेषुः' निमन्त्रयेरन् तदा प्रवर्तिनी स्वयंतत्र गत्वा गृह्णाति। 'आशङ्काभीता च' प्रत्यपायशङ्कया चकिया तरुणीरात्मना सार्धंन नयति॥ [भा.४१८१] असती पवत्तिनीए, आयरियादी व्व जं वनीसाए। आगाढकारणम्मि उ, गिहिनीसाए वसंतीणं ॥ वृ-अथ नास्तिप्रवर्तिनी ततआचार्योपाध्यायादीन् 'यंवा' सामान्यसाधुमपि निश्राय' निश्रां कृत्वा विहरति तन्निश्रया ग्रहणं कर्तव्यम् । आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः ॥ इदमेव सविशेषमाह[भा.४१८२] असती पवत्तिनीए, अभिसेगादी विवज्जए नीसा । . गेण्हंति थेरिया पुन, दुगमादी दोण्ह वी असती ।। वृ-प्रवर्तिन्या अभावे अभिषेका-गणावच्छेदिनीप्रभृतयो या गीतार्था संयत्यस्ताः स्वयं गत्वा गृह्णन्ति । “विवजए नीस" त्ति विपर्ययो नाम-अभिषेकादयोऽपिन सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः पर्यटन्ति।अथ द्वे अपिन भवतस्ततो वक्ष्यमाणविधिना ग्रहीतव्यम् ।। कथं पुनर्बयोरप्यभावः ? इत्याशङ्कयाह[भा.४१८३] दुब्भूइमाईसु उ कारणसुं, गिहत्थणीसा वइणी वसंती। जे नालबद्धा तह भाविया वा, निदोस सन्नी व तहिं वसेज्जा॥ वृ-'दुभूतिः' अशिवम्, आदिशब्दादवमौदर्यादिपरिग्रहः, तेषुकारणेषुगृहस्थनिश्रयाएकाकिनी व्रतिनी वसन्ती ये 'नालबद्धाः' तस्या एव सज्ञातकाः, ये वा 'अनालबद्धा अपि भाविताः . साधुसामाचारी परिकर्मितमतयो यथाभद्रकाः ये वा निर्दोषाः' हास्य-कन्दादिदूषणरहिताः संज्ञिनस्तेषां गृहे वसेत् ॥ तत्र च स्थितां भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रयेत् तदा वक्तव्यम्[भा.४१८४] सेज्जायरो व सन्नी, व जाणति वत्थलक्खणं अम्हं। तेन परिच्छियमेतं, तदनुन्नातं परिग्धेच्छं। वृ-शय्यातरो वा संज्ञी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सद् अहमिदं परिग्रहीष्यामि ।। [भा.४१८५] पंतो दह्ण तंग, संकाए अवनयं करेजाहि । ____अन्नासिं वा दिन्नं, वइतं नीयं व हसिता व ॥ कृ-ततः संयत्वा समानीनं 'तकं शय्यातरंसंज्ञिनंवा दृष्ट्वाप्रान्तः शङ्कया अपनयं वस्त्रस्यैकान्ते स्थापनं कुर्यात्; यद्वा ब्रूयात्-अन्यासां संयतीनां दत्तं वजिकां वा नीतं हसेद्वा ।। अथवा For Private & Personal Use Only HEELLEHEभा Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516