Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 446
________________ ४४३ उद्देशक ः ३, मूलं-९१, [भा. ४१७२] संयत्यो निमन्त्रितास्तदिदं वस्त्रं न भवति ॥ एवमुक्ते ते चिन्तयेयुः[भा.४१७३] बहु जाणिया न सक्का, वंचेउं तेसि जाणिउं भावं। नेच्छंति भद्दएसुतु, पहभावेसु गेण्हंति ॥ वृ-अये ! अमीभिराचार्यैः 'बहु' प्रभूतं 'ज्ञाताः' उपलक्षिता वयम्-यदेते आभियोगिकानी वस्त्राणि प्रयच्छन्तीति, अतो न शक्य अभी वञ्चयितुम् ? इत्यादिकं तेषां भावम्' अभिप्रायं मुखविकारादिभिराकारैत्विा नेच्छन्ति । भद्रकेषु तु प्रहृष्टभावेषु गृह्णन्ति॥ भद्रकेष्वेव विशेषमुपदर्शयति[भा.४१७४] न वि एवं तं वत्थं, जंतं अजाण नीणियं भे त्ति । . तुब्भे इमं पडिच्छध, तं चिय एताण दाहामो ।। वृ-नाप्येतत् तद् वस्त्र यत् तद् आर्यिकाणामर्थाय निष्काशितं भवद्भि; इत्युक्ते यदि गृहस्था ब्रुवते-यूयं तावदिदं वस्त्र प्रतीच्छत, एतासांतु वयं तदेव दास्यामः॥ ततो वक्तव्यम्[भा.४१७५] अन्नेण ने न कजं, एतट्ठा चेव गेण्हिमो अम्हे। जति तानि विइति वुत्ते, नीणेति दुए वि गिण्हंति ॥ वृ-अन्येन वस्त्रेण "ने" अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः; इत्युक्ते यदि 'तान्यपि प्राक्तनानि वस्त्रणि आनयन्ति ततः 'द्वयान्यपि प्राक्तन-पश्चात्तनानि गृह्णन्ति ॥ [भा.४१७६] तानि वि उवस्सयम्मिं, सत्त दिने ठविय कप्प काऊणं । थेरा परिच्छिऊणं, विहिना अति तेनेव ।। वृ- तान्यपि वस्त्राणि गृहीत्वा उपाश्रये आनीय सप्त दिनानि स्थापयित्वा कल्पं कृत्वा स्थविरप्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः 'स्थविराः' आचार्यास्तेनैव विधिना संयतीनामर्पयन्ति॥ एवमाचार्यनिश्रया ग्रहणमुक्तम् । अथोपाध्यायदिनिश्रया तदेवाह[भा.४१७७] आयरिए उवज्झाए, पवत्ति थेरे गणी गणधरे य। . गणवच्छेइयणीसा, पवित्तिनी तत्थ आनेति ॥ वृ-आचार्यस्याभावे उपाध्ययस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो वा निश्रया वस्त्रग्रहणं कर्तव्यम् । एतेषामभावे प्रवर्तिनी 'तत्र' गृहस्थकुले गत्वा स्वयमानयति ॥ इदमेव व्याख्यानयति[भा.४१७८] आयरिए असधीणे, साहीणे वा विवाउल गिलाणे। ___ एक्केक्कगपरिहाणी, एमादीकारणेहिं तु॥ वृ-यदि तत्राचार्यो अस्वाधीनः स्वाधीनो वा परं 'व्याकुलः' कुलादिकार्येषु व्यापृतः ग्लानो वा तत उपाध्यायनिश्रया ग्रहणं विधेयम् । तत्रापि स एव विधि । अथोपाध्यायोऽस्वाधीनो व्याकुलोवा, ततएकैकपरिहाण्या तावद्नेयं यावत् प्रवर्तिनीनिश्रयाऽपिग्रहीतव्यम् । एवमादिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति ।। [भा.४१७९] सुत्तनिवातो थेरी, गहणं तु पवत्तिनीय नीसाए । तरुणीण य अग्गहणं, पवत्तिणी तत्थ आनेति॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516