Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 416
________________ उद्देशक : ३, मूलं-८८, [भा. ४०१३] - ४१३ यश्चत्वार्यङ्गलानि च भवन्तितदा तस्य 'भाजनस्य पात्रकस्यतद् मध्यमप्रमाणम्। इतः' मध्यमप्रमाणाद् हीनं यत् पात्रं तद् जधन्यम् । 'अतिरिक्ततरं तु' मध्यमप्रमाणाद् बृहत्तरमुत्कृष्टम् ।। अथवा [भा.४०१४] उक्कोसतिसामासे, दुगाउअद्धाणमागओ साहू । चउरंगुलवजं भत्त-पान पज्जत्तियं हेट्ठा ॥ वृ-उत्कृष्टस्तृड्मासः स उच्यते यस्मिन् अतीवप्रबला पिपासा समुल्लसति, सचज्येष्ठ आषाढो वा; तस्मिन् काले द्विगव्यूतप्रमाणादध्वन आगतो यः साधुः तस्येशकाला-ऽध्वखिन्नम्य यत् 'चतुरङ्गुलवर्जम्' उपरितनैश्चतुर्भिरडलैन्यूनमधस्ताद्भक्त-पानस्य भृतंपर्याप्तं भवति तदित्यम्भूतं पात्रकस्य प्रमाणं मन्तव्यम् ॥ [भा.४०१५] एयं चेव पमाणं, सविसेसयरं अनुग्गहपवत्तं । कंतारे दुभिक्खे, रोहगमाईसु भइयव्वं ॥ .. वृ- एतदेव प्रमाणं 'सविशेषतरं' समधिकतरं यस्य भाजनस्य भवति तद् ‘अनुग्रहप्रवृत्तं' गच्छस्यानुग्रहार्थं प्रवर्तते । कथम्? इत्याह-‘कान्तारे' महत्यामटव्यां वर्तमानस्य तदुत्तीर्णस्य वा गच्छस्यानुग्रहार्थं तद् गृहीत्वा वैयावृत्यकरः पर्यटति, दुर्भिक्षेऽप्यलभ्यमानयां भिक्षायां तद्गृहीत्वा चिरमटित्वा बालादिभ्यो ददाति, एवं नगरस्य रोधके साते आदिशब्दादपरेषु वा भयविशेषेषु कश्चिद् दानश्रद्धालुर्यावदेकस्मिन् भाजने माति तावत् प्रचुरतरमपि भक्त-पानं दद्यात्, तत्र तद् अतिरिक्तभाजनं भक्तव्यं सेवनीयम् ।।अथापवादद्वारममिधित्सुर्यै कारणैरधिकं हीनं वाधारयति तानि तावदर्शयति[भा.४०१६] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए।। लहुओ लहुया गुरुगा, चउत्थो सुद्धो उ जाणओ कृ-यदि अज्ञानेन हीन-ऽधिकप्रमाणं भाजनंधारयति ततो लघुमासः । गौरवेणधारयतश्चत्वारो लघवः । लोभनं-लुब्धं लोभ इत्यर्थः, तेन धारयतश्चत्वारो गुरवः ।असम्प्राप्तिमि-प्रमाण-युक्तस्य पात्रस्याप्राप्तिस्तस्यां यो हीना-ऽतिरिक्तं धारयति सः 'चतुर्थ' असम्प्राप्तिधारकः शुद्धः । तथा ज्ञायको नाम-पात्रलक्षणा-ऽलक्षणवेदी स लक्षणयुक्तं हीना-ऽधिकप्रमाणमपि धारयन् शुद्ध इति द्वारश्लोकसमासार्थः॥अथैनमेव विवृणोति[भा.४०१७] हीना-ऽदिरेगदोसे, अजाणओ सो धरिज हीन-ऽहियं । पगईय थोवभोगी, सति लाभे वा करेतोमं ।। वृ- पात्रस्य ये हीना-ऽतिरिक्तविषया दोषाः पूर्वमुक्तास्तान् यो यतिर्न जानीते स हीनाऽधिकप्रमाणंधारयेत्।तथा कश्चिऋद्धिगौरवगुरुकः सत्यपि भक्त-पानलाभेप्रकृत्यैव स्तोकभोजी 'स्वल्पाहारोऽयं महात्मा' इति ख्यापनार्थम् ‘नवमं हीनप्रमाणं भाजनं करोति ।। किं पुनस्तस्य ऋद्धिगौरवम् ? इत्याह[भा.४०१८] ईसरनिक्खंतो वा, आयरिओ वा विएस डहरेणं। , इति गारवेण ओमं, अइप्पमाणं चिमेहिं तु ।। वृ-'ईश्वरनिष्क्रान्तो वा' राजादिमहर्द्धिकप्रव्रजितः, आचार्यो वा एष साधुर्यदेवं 'डहरेण' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516