Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 429
________________ ४२६ बृहत्कल्प-छेदसूत्रम् -२-३/८८ गाथायां पुंस्त्वंप्राकृतत्वात्, तच्च ‘नौनिभं' मध्यभागे विशालं पर्यन्तभागयोस्तुतनुकंगुह्यदेशरक्षार्थं क्रियते । तच्च गणनया एकम्, आर्तव-बीजपातसंरक्षणार्थं च धन-धनवस्त्रेण, पुरुषसमानककशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रण क्रियते । प्रमाणेन च 'देहं' स्त्रशरीरमासाद्य तद् विधीयते, देहो हि कस्याश्चित्तनुः कस्याश्चित्तु स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ।। [भा.४०८५] पट्टो वि होइ एक्को, देहपमाणेण सो उ भइयव्वो। छादतोग्गहणंतं, कडिबद्धो मल्लुकच्छा वा ॥ वृ-पट्टाऽपि गणनयको भवति।सच पर्यन्तभागवर्त्तिवीटकबन्धबद्धः, पृथुत्वेन चतुरङ्गुलप्रमाणः समतिरिक्तो वा, दैर्येण तु स्त्रकटीप्रमाणः । स च देहप्रमाणेन भक्तव्यः, पृथुलकटीभागाया दीर्ध सङ्कीर्णकटीभागायास्तुहस्व इत्यर्थः । स चावग्रहानन्तकमुभयान्तयोराच्छादयन् कटीबद्धः सन् मल्लकक्षावद् ज्ञायते॥ [भा.४०८६] अड्ढोरुगो वि ते दो, वि गिहिउंछादए कडीभागं । जानुप्पमाणा चलणी, असिव्विया लंखियाए व ।। वृ- अर्धारुकोऽपि 'तौ द्वावपि' अवग्रहानन्तक-पट्टावुपरिष्टाद् गृहीत्वा सर्वं कटीभागमाच्छादयति, सच मल्लचलनाकृति केवलमूर्वोरन्तरे ऊरुद्वयेच कसाबद्धः । चलनिकाऽप्येवमेव, नवरमधो जानुप्रमाणा अस्यता लडिकापरिधानवत्-वंशाग्रनर्तकीचलनकवदसौ मन्तव्या॥ [भा.४०८७] अंतोनियंसणी पुन, लीनतरा जाव अद्धजंघातो। बाहिर खुलगपमाणा, कडीय दोरेण पडिबद्धा ॥ वृ-अन्तर्निवसनीपुनरुपरिकटीभागादारभ्याधोऽर्धजजायावद्भवति।साच परिधानकाले लीनतरा परिधीयते, मा भूदनावृता जनोपहास्येति। बहिर्निवसनी पुनरुपरि कटीभागादारभ्याधः 'खुलकप्रमाणा' चरणगुल्फ यावदित्यर्थ, कट्यां च दवरकेण प्रतिबद्धा ।। इदमधःशरीरस्य षड्विधमुपकरणमुक्तम् । अथोर्ध्वकायोपयोगि कञ्चुकादिकं व्याख्याति[भा.४०८८] छादेति अनुक्कुयिते, उरोरुहे कंचुओ असिव्वितओ। एमेव य उक्कच्छी, सा नवरं दाहिणे पासे ।। वृ-दर्घामाश्रित्य स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः 'अशीवितः' उभयतः कटीदेशे कसावबद्धः कञ्चुकः क्रियते। सच उरोरुहौ छादयति, किम्भूतौ ? 'अनुत्कुचितौ' (अ) श्लथौ; गाढपरिधाने हि विविक्तविभागौ भवेताम् । कक्षायाः समीपमुपकक्षम्, तत्र भवा औपकक्षिकी, अध्यात्मादित्वादिकणप्रत्ययः, “एवमेव च' कञ्चुकवत् तस्या अपि स्वरुपं वक्तव्यम् । सा नवरंदक्षिणेपाचँसमचतुरस्र स्वहस्तेन सार्धहस्तप्रमाणा उरोभागंपृष्ठंच प्रच्छादयन्तीवामस्कन्धे वामपार्थे च वीटकबद्धा परिधीयते॥ [भा.४०८९] वेगच्छिया उ पट्टो, कंचुकमुक्कच्छियं च छादेति । संधाडीओ चउरो, तत्थ दुहत्था उ वसधीए । वृ-औपकक्षिकीविपरीतो वैकक्षिकीनामकः पट्टः कञ्चकमौपकक्षिकी च छादयन् वामपार्थे परिधीयते । तथोपरि परिभाग्याः सङ्घाटिकाश्चतस्त्र भवन्ति-एका द्विहस्ता, द्वे त्रिहस्ते, एका च . चतुर्हस्ता; दैर्येण चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा मन्तव्याः । तत्र 'द्विहस्ता' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516