Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२०
बृहत्कल्प-छेदसूत्रम् -२-३/८८ 'ध्यामितं' प्रदीपकेन दग्धम्, आदिशब्दात् स्तेनैर्वाऽपहृतं भग्नं वा । एवंविधयोयोरप्यसत्तयोर्यथाकृतमागन्तुकबीजानां भृतमपि कल्पते, नपुनःशुद्धमल्पपरिकर्म। यत् पुनरस्माभि 'शोधि' प्रायश्चित्तमुक्तंसा द्विविधाया असत्तायाअभावेसति पात्रे यो गृह्णाति तद्विषयामन्तव्या ।।किञ्च[भा.४०५२] जो उगुणो दोसकरो, न सो गुणो दोसमेव तं जाणे।
अगुणो वि होति उगुणो, विनिच्छयो सुंदरो जस्स ॥ वृ- 'यस्तु' यः पुनर्गुणः ‘दोषकरः' आत्मोपघातादिदोषजनकः स परमार्थतो गुण एव न भवति किन्तु दोषमेव तं जानीयात्, दोषकारणत्वात्; यस्य तु विनिश्चयः' निर्वाहः सुन्दरः स कथञ्चिदगुणोऽपि परिणासुन्दरतया गुण एव भवति, गुणकारणत्वात्; एवमिहापि यथाकृते यद्यपितान्यागन्तुकबीजानियतनयाऽन्यत्र सङ्कामयतःस्वल्पः सट्टनदोषस्तथापिनतत्रसूत्रार्थयोः परिमन्थः, न च छेदन-भेदनादिना आत्मोपघातः, अपि च तद् गृहीतं सत् तस्यामेव वेलायां भक्त-पानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहुगुणम् । अल्पपरिकर्मादौ तु परिकर्नामाणे सूत्रार्थपरिमन्थः,छेदनादिनाऽऽत्मोपघातइत्यादयोबहवोदषाः, अतः सगुणमपितबहुदोषतरम्।।
अथ “पमाण उवओगछेयण';'त्ति द्वारमाह[भा.४०५३] असइ तिगे पुन जुत्ते, जोगे ओहोवही उवग्गहिए।
छेयण-भेयणकरणे, सुद्धोजं निजरा विउला॥ वृ-यथाकृतंत्रीन्वारान्मार्गितं परंनलब्धम्, ततो वारत्रिकं योगे' व्यापारे युक्ते' कृतेऽपि यथाकृतस्य 'असति' अप्राप्ती, 'पुनःशब्दः' अवधआरणे, स चैतदवधारयति-वारत्रयात् परतोऽल्पपरिकर्मकमेव ग्रहीतव्यम् । अथ तदपि न प्राप्यते ततो बहुपरिकर्मापि ग्राह्यम् । एष
ओधोपधौ औपग्रहिकोपधौ च सर्वस्मिन्नपि विधिरवसातव्यः । एवं च क्रमागतमल्पपरिकर्मादि गृहीत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति सः 'शुद्धः' न प्रायश्चित्तभाग, कुतः? इत्याह यद्' यस्माद् यथोक्तक्रमागतं विधिं विदधानस्य निर्जरा विपुला भवति ।। ननु चाल्पपरिकर्मादौ छेदनादिपरिकर्मसम्मवादात्म-संयमविराधना भवति ततः कथं तस्य ग्रहणमनुज्ञायते ? उच्यते[भा.४०५४] चोयग! एताए चिय, असईय अहाकडस्स दो इयरे ।
कप्पंति छेयणे पुन, उवओगंमा दुवे दोसा ॥ वृ-हे नोदक ! या पूर्वं द्विविधा असत्ता प्ररूपिता ‘एतयैव' यथाकृतस्यासत्तया 'द्वे इतरे' अल्पपरिकर्म-सपरिकर्मणी कल्पेतेप्रतिग्रहीतुम्, परंतयोश्छेदनादौ महता प्रयत्नेनोपयोगं करोति, मा 'द्वौ' संयमा-ऽऽत्मविराधनालक्षणौ दोषौ भूतामिति कृत्वा॥ [भा.४०५५] अहवा विकतो नेनं, उवओगो न विय लब्भती पढमं ।
हीणाहीयं वलब्मति, सपमाणा तेन दो इयरे॥ वृ-अथवा कृतः अनेन' साधुना ‘उपयोगः' मार्गणव्यापारः परं न लभ्यते 'प्रथम' यथाकृतं पात्रम्, अथवालभ्यते परंस्वप्रमाणतोहीनाधिकंतेन कारणेन द्वेइतरे अल्पपरिकर्म-सपरिकर्मणी यथाक्रमं गृह्णाति ॥ कुतः? इति चेद् उच्यते[भा.४०५६] जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला ।
निजरमेवमलंभे, बितियस्सियरे भवे विउला॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9223456d898d1410fe67a8f5b764494bb2c49b3e7bc12979f8cfaa9dda442287.jpg)
Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516