Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 197
________________ १९४ राजप्रश्नीयउपाङ्गसूत्रम् - 9 सविस्तरमुक्तानीति सूत्रकृताङ्गगतिविशेषप्रकटनादिदमुपाङ्गं सूत्रकृताङ्गस्येति । एतद्वक्तव्यतां च भगवता वर्द्धमानस्वामिन गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यदीयत तदेतत्सर्वमभिवित्सुरिदमाह सूर्याभदेवः प्रकरणं मू. (१) ते णं काले णं ते णं समए णं आमलकप्पा नामं नयरी होत्था, रिद्धत्थिमिसमिद्धा जाव पासा दीया दरिसणिज्जा अभिरूवा पडिरूवा । वृ. 'तेकाले णं तेणमित्यादि' 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थोयस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण' मिति वाक्यालङ्कारे, दृष्टश्चान्यत्रापिणंशब्दो वाक्यालङ्कारार्थो यथा- 'इमाणं पुढवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणीचतुर्षविभागरूपे, अत्रापि णंशब्दो वाक्यालङकृती । 'तेणं समए णं' समयोऽवसर' वाची, तथा च लोके वक्तारो -नाद्याप्येतस्य वक्तव्यस्य समय वर्त्तते । किमुक्तं भवति ? - नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्त्तते दतः कथमुक्तमभवदिति ?, उच्यते वक्ष्यमाणवर्णक-ग्रन्थोक्तविभूतिसमन्विता तदैवा भवत्, न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत्, उच्यते अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधमभाक् । सम्प्रत्यस्या नगर्या वर्णकमाह- रिद्धत्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा - भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषिवृद्धा' विति वचनात्, स्तिमिता - स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः - प्रमोदवन्तः प्रमोदहेस्तवतूनां तत्र सद्भावान्, जनानगरीवास्तव्यलोकाः जानपदाःजनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैकराकीर्मा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिठ्ठविगिट्टलट्ठपन्नत्तसउसीमा" हलानां शतैः सहस्रैश्च सङ्कृष्ठा विलिखिता विकृष्टाः नगर्या दूरवर्त्तिनी भावः, लष्टा - मनोज्ञा प्राज्ञैः छेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः । सेतुसीमा कुल्याजल सेक्य क्षेत्रसीमा यस्याः सा हलशतसहस्रसङ्कृष्टविकृष्टलष्टप्राज्ञातसेतुसीमा, 'कुक्कडसंडेयगामपउरा' कुक्कडसम्पात्या ग्रामाः सर्वासु दक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कडसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया' गावो - बलीवर्दा महिषाः प्रतीता गावःस्रीगव्य एडका:- उरभ्रास्ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुवइविसिट्ठसन्निविट्ठबहुला' आकारवन्ति सुन्दराकाराणि चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि - बहूनि यस्यां सा तथा, 'उक्कोडियगायगंठिभेदतक्करखंडरकखरहिया' उत्कोटा-लच्चा तया चरन्ति उत्कोटिकास्तर्गात्रभेदैः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372