Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं - १०
'आरिसिज्जा' इति आवर्षेत् आ - समन्तात्सिञ्चेत्, 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविजुयाइंति' त्ति प्रकर्षेण विद्युतं विदधति, 'पुष्फवद्दलए विउव्वंति' पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवार्दलिकानि - पुष्पवर्षुकान् मेघान् विकुर्वन्तीति भावः ।
'एवं महं पुप्फछज्जियं वा' एकां महतीं छाद्यते - उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैर्भृता छाधिका पुष्पछाधिका तां वा पटलकानि - प्रतीतानि, 'कयग्गाहगहियकरयलपमट्ठवि (प) मुक्कणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि (प्र) मुक्तं सव्प्रभ्रष्टं करतलप्रभ्रष्टवि (प्र) मुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेंति' जयेन विजयेन वर्द्धापयन्ति, जयतु देवेत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामसहमनानामभिभवोत्पादः, वर्द्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिकां प्रत्यर्पयन्ति, आदिष्टाकार्यसम्पादनेन निवेदयन्तीत्यर्थः ॥
२१९
मू. (99) तए णं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए पायत्ताणियाहिवरं देवं सद्दावेति सद्दावेत्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसद्दं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाने २ महया २ सद्देणं उग्घोसेमाणे २ एवं वयासी
आणवेति णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसालवने चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽवि णं भो देवाणुप्पिया ! सव्विड्ढीए जाव नातियरवेणं नियगपरिवाल सद्धिं संपरिवुडा सातिं २ जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ।
वृ. 'तए णमित्यादि, ततो 'नामिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं' ति आ - समन्तादाभिमुख्येन युज्यन्ते - प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम् - अनन्तरोक्तमर्थं 'श्रुत्वा श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य 'हट्ठतुट्ठजावहियए' इति यावच्छब्दकरणात् 'हट्ठतुट्ठचित्तमानंदिए पीइणणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत् ।
क्षिप्रमेव भो देवानां प्रिय ! समायां सुधर्माया-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद्द' मिति मेघानामोघः - सङ्घातो मेघौघस्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमघुरशब्दा तां 'जोयणपरिमंडलं' ति योजनं - योजनप्रमाणं परिमण्डलंगुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यरयाः सा योजनपरिमण्डला तां सुस्वरां-सुरवराभिधाना घण्टामुलालयन् २ ताडयन् ताडयन्नित्र्यः, महता २ शब्देन उद्घोषयन्- उद्घोषणां कुर्व्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्षं आमलकल्पां नगरीमाभ्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् ।
'तुब्भेऽवि णमिति यूयमाप 'णमिति पूर्ववद्, देवानां प्रियाः ! पूर्ववद सर्वद्वर्यापरिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन - समस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372