Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 245
________________ २४२ राजप्रश्नीयउपाङ्गसूत्रम्-२१ सम्यगष्टिको मिथ्याष्टिकः, सम्यगष्टिरपिकश्चित्परिमितसंसारोभवति कश्चिद-परिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाञ्चिदनन्तसंसारभावाद्, अतः पृच्छति-परीत्त-संसारोकिsनन्तसंसारिकः ?, परीत्तः-परिमितः स चासौ संसारश्च परीत्तसंसारः, परीत्तसंसा-रिकोऽपि कश्चित् सुलभबोधिकोभवतियथाशालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधि-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्भबोधिकः, सुलभबोधिकोऽपिकश्चिद्घोधिं लब्ध्वा विराधयतिततः पृच्छति-आराधयति-सम्यक्पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चित्तद्भवमोक्षगामी न भवति। ततः पृच्छति-चरमोऽचरमो वा?, चरमोऽनन्तरभावी भवो यस्यासौ चरमः।। 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादि श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-भोः सूर्याभ ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् ‘सम्मद्दिट्ठी नो मिच्छादिट्टी परित्तसंसारिए नो अनंतसंसारिए सुल्लभबोहिए नो दुल्लभबोहिए आराहए नो विराहए' इति परिग्रहः । मू. (२२) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ चित्तमानंदिए परमसोमनस्से समणं भगवं महावीरं वंदति नमसति २ एवं वदासी तुब्भे णं भंते ! सव्वं जाणह सव्वं पासह (सव्वओ जाणह सव्वओ पासह) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंतिणं देवाणुप्पिया मम पुट्विं वा पच्छा वा ममेयरूवं दिव्वं देविडं दिव्वं देवजुइं दिव्वं देवानुभागं लद्धं पत्तं अभिसमणागयंति तंइच्छामिणंदेवाणुप्पियाणंभत्तिपुव्वगंगोयमातियाणं समणाणंनिग्गंथाणंदिव्वंदेविडिंढ दिव्वं देवजुइंदिव्वं देवानुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए। वृ.तुब्भेणंभंते ! तुब्भे इति यूयंणमिति वाक्यालङ्कारे भदन्त! सर्वं केवलवेदसा जानीथ सर्वं केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकार्येऽपिवर्तते यथा अस्य सर्वस्यापि ग्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह-'सव्वतोजाणह सव्वओ पासह' सर्वतः-सर्वत्र दिक्षु ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाह-सर्वकालम् अतीतमनागतं वर्तमानंचजानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित्सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपिज्ञानसर्वपर्यायविषयं नसम्भावयेत्यथामीमांसकादिअत आह-सर्वान् भावान्-पर्यायान्प्रतिद्रव्यामात्मीयान्परकीयांश्च केवलवेदसाजानीथ केवलदर्शनेन पश्यथ, अथ भावादर्शनविषयान भवन्ति ततः कथमुक्तं ___'सव्वे भावे पासह' इति?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्त्-"निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो 'जाणंतिणमितिपूर्ववत् देवानां प्रियाः पूर्वमपिअनन्तरमुपदय॑माननाट्यविधेः पश्चादपिच उपदर्श्यमाननाट्यविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं देशान्तरगतमपि किञ्चिद्भवति तत आह-प्राप्तं, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत आह-अभिसमन्वागतं, तत 'इच्छामिणमि' त्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372