Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२७०
राजप्रश्नीयउपाङ्गसूत्रम्-२९
जलशून्याः करका प्रज्ञप्ताः, तद्यथा-'किण्हसुत्ते'त्यादि गवच्छं-आच्छादनंगवच्छासाता एष्विति गवच्छिकाःताः कृष्णसूत्रैः-कृष्मसूत्रमयैर्गवच्छिकै (तै)रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलसूत्रसिक्कगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः शर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् ।
'तेसिण'मित्यादि, तेषांतोरणानांपुरतोद्वौ द्वौ चित्री-आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्ती 'से जहानामए' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः-चतुषु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलं यस्य तस्यैवचित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णोवा 'वेरुलियनाणामणिफलियपडलपच्चोयडे' इतिबाहुल्येन वैडूर्यमणिमयः ‘फलिहपडलपञ्चोयडे' इति स्फटिकपटलाबच्छादतः ‘साए पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति एतदेव पर्यात्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति ‘एवमेवे' त्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठाअपिवाच्याः, उक्तं, च जीवाभिगममूलटीकाकारेण–“हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपिकण्ठावाच्या" इति, तथा चाह- 'सव्वरयणामया' इति, सर्वे रत्नमया-रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । _ 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेौ प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसिणं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि ण'मित्यादि, तेषां तोरणानापुरतो द्वेद्वेछेत्र रूप्यमयं प्रज्ञप्ते, तानिचछत्राणिवैडूर्यरमयविमलदण्डानि जाम्बूनदकणिकानि वज्रसन्धीनि वज्ररलापूरितदण्डशलाकासन्धीनिमुक्ताजालपरिगतानिअष्टौ सहमणि-अष्टसहनसङ्ख्या वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषुतानि
तथा दद्दरमलय सुगंधि सव्वोउयसुरभिसीयलछाया इति दईरः-चीवरावनद्धंकुण्डिकादिभाजनमुखंतेनगालितास्तत्र पक्वा येमलय इति-मलयोद्भवं श्रीखण्डंतत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषुऋतुषुसुरभिशीतलाच छायायेषतानि तथा, ‘मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, तेसि णमित्यादि, तेषांतोरणानांपुरतोद्वेद्वेचामरे प्रज्ञप्तेतानिचचामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रपरभवज्रवैडूर्याणि शेषाणि च नानाणिरत्लानि खचितानि येषु ते तथा एवंरूपाश्चित्रा।
नानाकारादण्डायेषांचामराणांतानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घावाला येषांतानि तथा, 'शंखंककुंददगरयअभयमहियफेणपुंजसन्निकासाओ' इति 'शङ्खः' प्रतीतःअङ्को-रलविशेषः ‘कुंदे'ति कुन्दपुष्पं दकरज-उदककणाःअमृतमथितफेणुञ्जः-क्षीरोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372