Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 283
________________ २८० राजप्रश्नीयउपाङ्गसूत्रम्-३२ कदम्बकं प्राग्वत्। ___ 'तेसि ण'मित्यादि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावरशब्दात् मालिगृहकादिपरिग्रहः, 'बहूनि हंसासनानि' इत्यादि प्राग्वत् । 'तेसि णमित्यादि, तेषु वनखण्डेषु तत्र तत्र देशेतस्यैव देशस्यतत्रतत्रएकदेशेबहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकमण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्लीन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः,सएवलतानागलता, इह यस्य तिर्यक् तथाविधाशाखाप्रशाखावानप्रसृतासा लतेत्यभिधीयतेनागलतामयामण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफलावृक्षविशेषास्तुद्यक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-'सव्वरयणामया' इत्यादि प्राग्वत् । _ 'तेसिण'मित्यादि, तेषुजातिमण्पकेषुयावन्मालुमाण्डपकेषुजावशब्दात्यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः परज्ञप्तास्तद्यथा-अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठियाअप्पेगइया भद्दासणसंठियाअप्पेगइया पक्खा० अप्प आयंसासणसंठियाअप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठियाअप्पगइयापउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानिच वराणि-प्रदानानि शयनानि आसनानि च तद्वत संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कवचित 'मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ते च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसस्थिताश्चेति, आईणगरूय बूरनवनीयतूलफासमउया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत्। तत्रतेषुउत्पादपर्वतादिगतहंसासनादिषुयावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमितिपूर्ववत्बहवः सूर्याभविमानवासिनोदेवा देव्यश्चयथासुखभासतेशेरते-दीर्घकायप्रसारणेन वर्तन्तेन तुनिद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्रायाअभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविंशतितुयटृति-त्वग्वर्त्तनं कुर्वन्ति, वामपार्श्वतः परावृत्यदक्षिणपाइँनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्बेनेति भावः, रमन्ते-रतिमाबघ्नन्ति ललन्ति-मनईप्सितं यथा भवतितथावर्तन्त इतिभावः, क्रीटन्ति-यथासुखमितस्ततोगमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति इत्येवं पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामितियोगः, अतएवपौराणानांसुचीर्णानां-सुचरितानां, इह सुचरतजनितं कर्मापि कार्ये कारणोपचारात् सुचरितं, ततोऽयं भावार्थः विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्यकारणोपचारात् सुपराक्रन्तिजनितानि सुपराक्रन्तानि इत्युक्तं, किमुक्तं भवति? सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति,अत एव शुभानां शुभफलानां, इह किंञ्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372