Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३०४
राजप्रश्नीयउपाङ्गसूत्रम्- ४२ पौण्डरीकहदेषु ह्रदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहिताराहितांशा सुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमुत्तिकां ।
तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढ्येषु सर्वतूवरादीन्, ततो महाहिमवद्रूप्पिवर्षधरपर्वतेषुसर्वतूवरादीन्, ततो महापद्मपुडरीकहदेषुहृदोदकादीनि, तदनन्तरंहरिवर्षरम्यकवर्षेषु हरिषलिलाहरिकान्तानरकान्तानीकान्तासुमहानदीषु सलिलोदकमुभयतटमृत्तिकांच, ततोगन्धापातिमाल्यवतपर्यायवृत्तवैताढयेषु तूवरादीन्, ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हृदोदकादीनि, ततः पूर्वविदेहापविदेहेषु सीतासीतोदानदीपु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकांच।
तदनन्तरं वक्षस्कारपर्वतेषु सर्वतूवरादीन्, ततः सर्वासु अन्तरनदीषु सलिलोदक्मुभयतटमृत्तिकांच, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादीन्, ततो नन्दनवने तूवरादीन् सरसंच गोशीर्षचन्दनं, तदनन्तरं सौमनसवने सर्वतूवरादीन् सरसंच गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकवने तूवरपुष्पगन्धमाल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि, दद्दरमलए सुगंधिए य गंधे गिण्हंति' इति दईर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्क यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान् परमगन्धोपेतान् गन्धान् गृह्णति।
'आसियसंमञ्जिओवलित्तं सुइसम्मट्ठरत्थंतरावणवीहियं करेइ' इति आसिक्तम्उदकच्छटकेन सन्मार्जितं-संभाव्यमानकचरवरशोधनेन उपलिप्तमिव गोमयादिनाउपलिप्तंतथा सिक्तानिजलेनात एव शुचीनि-पवित्राणि संमृष्टानिकचवरापनयनेन रथ्यान्तराणिआपणवीथय इवहधर्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगइया देवा हिरण्णविहिं भाएंति' अप्पेककाः-केचन देवा हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्तिविश्राणयान्ति,शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवये'त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामं आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयति, अप्येककादेवा 'वुक्कारेति' वुक्काशब्दं कुर्वन्ति, पीणंति' पीनयन्तिपीनमात्मानं कुर्वन्ति स्थूला भवंतीत्यर्थ ।
‘लासंति' लासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'तंडवंति'त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति,वुक्कारत वुक्करं कुर्वन्ति अप्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, ‘उच्छलंतित्ति उच्छलयन्ति पोच्छलंति' प्रोच्छलयन्ति उवयंति'त्तिअवपतन्ति 'उप्पयंति'त्ति उत्पतन्ति 'परिवयंति'त्ति परिपन्तन्तितिर्यनिपतन्तीत्यर्थः ‘जलंति'त्तिज्वालामालाकुला भवन्ति तविंति'त्ति तप्ता भवन्ति प्रतप्ता भवन्ति थुक्कारैति'त्ति महताशब्देन थूत्कुर्वन्ति देवोक्कलियंकरेंति'त्ति देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकह करेंति'त्ति प्राकृतानांदेवानांप्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372