Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३२४
राजप्रश्नीयउपाङ्गसूत्रम्-५४
अभिमुखाः, 'चाउग्घंट' तिचतो घण्टाअवलम्बमानायस्मिन्स तथा, अश्वप्रधानोरथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेषं प्रागव्याख्यातार्थं, 'जह जीवा बज्झन्ती' त्यादिरूपा धर्मकथा औपपातिकग्रन्थादवसेया, लेशतस्तु प्रागेव दर्शिता।
सद्दहामी'त्यादि, श्रद्दधे-अस्तीत्येवंप्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैशासनम्, एवं पत्तियामि' इतिप्रत्ययं करोम्योतिभावः, रोचयामि-करणरुचिविषयीकरोमि चिकीर्षामा तात्पर्यार्थः, किमुक्तं भवति?-अभ्युत्तिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादित तत्तथैव भदन्त तथैवैतद्भदन्त! यथास्यवृत्या वस्तु अवितथमेतत्भदन्त!, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति भावः,।
'इच्छियपडिच्छियमेयं भंते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् प्रतिपन्नमेतत्यथायूयंवदय, 'चिच्चा हिरण्ण' मित्यादि, हरिण्यम्-अघटितंसुरवर्णं धनं रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि व्याख्यातानिप्रतीतानिच, चिच्चा विउल धणे त्यादि, धनं-रूप्यादि कनकरत्नमणिमौक्तिकशङखाः प्रतीताः शिलाप्रवालं-विद्रुम सत्-विद्यमानं सारं-प्रधानं यत् स्वापतेयं-द्रव्यं 'विच्छर्दयित्वा भावतः परित्यज्य 'विगोवइत्ता" प्रकटीकृत्य, तदनन्तरं दानं-दीनानाथादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥
मू. (५५) तएणंसे चित्ते सारही समणोवासएजाएअहिगयजीवाजीवे उवलद्धपुन्नपावे आसवसंवरनिज्जरकिरियाहिगरमबंधमोक्खकुसले असहिज्जे देवासुरनागसुवण्णजक्खक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओअणइक्कमणिज्जे
निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लद्धढे गहियढे पुच्छियढे विणिच्छियढे अभिगयढे अट्टिमिंजपेम्माणुरागरते, अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणट्टे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे -
--समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं पीढफलगसेजासंथारेणं वत्थपडिग्ग हकंबलपायपुंछणेणं ओसहभेसजेणं पडिलाभेमाणे २ बहूहिंसीलव्वयगुणवेरमणपचक्खाणपोसहोववासेहि य अप्पाणं भावमाणे जाइं तत्थ रायकजाणि यजाव रायववहाराणिय ताइंजियसुत्तणा रण्णा सद्धिं सयमेव पञ्चुवेस्खमाणे २ विहरइ।
वृ. 'अभिगयजीवाजीवे' इति, अभिगतौ-सम्यग् विज्ञातौ जीवाजीवौ येन स तथा, उपलब्धे- यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणांप्राणातिपातादीनां संवरस्य-प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः-कर्मणां देशतो निर्जरणस्य क्रियाणां-कायिक्यादीनामधिकरणानां-खग्रादीनां बन्धस्य-कर्मपुद्गलजीवप्रदेशान्योऽन्यानुग मरूपस्य मोक्षस्य-सर्वात्मना कर्मापगमरूपस्य कुशलः-सम्यक् परिज्ञाता आश्रवसंवरनिर्जराक्रियाधिकर्मबन्धमोक्षकुशलः 'असहेजे' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह -
'देवासुरनागजक्खरखसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिदेवगणेहिं निग्गंथाओ पावयणाओअणइक्कमणिज्जे' सुगम, नवरंगरुडाः-सुवर्णकुमाराः, एवं चैतत्यतो निर्ग्रन्थे प्रावचने
Jain Education International
For Private & Personal Use Only
"www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372