Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३१०
राजप्रश्नीयउपाङ्गसूत्रम् - ४४
प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम् - अपरोपदेशेन सम्यग वरबोधिप्राप्तया बुद्धा - मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः ।
तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको - भव्यसत्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य यथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य - प्राणिलोकस्य पञ्चास्तिकायात्मकस्य वाहिता - हितोपदेशेन सम्यकप्ररूपणया वा लोकहितास्तेभ्यः, तथा लोकस्य - देशनायोग्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य - उत्कृष्टमतेर्भव्यसत्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्त्करणशीला लोकप्रद्योतकराः ।
तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपतसमन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं - विशिष्टमात्मनः स्वास्थ्यं, निश्रेयसधर्मभूमिक निबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षु - विशिष्ट आत्मधर्म तत्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव रूपं तत्वदर्शनायोगात्, तद् द्ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो - विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः तथा शरणं- संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधि- जिनप्रणीतधर्मप्राप्तिस्तत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मं - चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा ? इत्याह-धर्मं दिशन्तीति धर्मेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच्च धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्त्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्त्तितुं शीलं येषां ते येषां ते तथा तेभ्यः, तथा अप्रतिहते - अप्रतिस्खलिते क्षायिकत्वात् वरे-प्रधाने ज्ञानदर्शने घरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः ।
तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्- अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गधातिकर्मशूत्रन् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णवन्तोऽन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगतत्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकचलनक्रयाऽपोहात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372