Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 319
________________ ३१६ राजप्रश्नीयउपाङ्गसूत्रम्-४८ नो विनयं पउंजइ, समण० सयस्सवि यणंजनवयस्स नो सम्मंकरभरवित्तिं पवत्तेइ ।। वृ. केइयअद्धेजणवएहोत्था' केकयीनामार्द्ध-अर्धमात्रमार्यत्वेनेतिगम्यते, सहि परिपूर्णो जनपदः, केवलमर्धमार्थमर्द्ध चानार्यमार्येण चेह प्रयोजनमित्युर्द्धमित्युक्तं, जनपद आसीत, 'सव्वोउयफलसमिद्धे रम्मे नंदनवनप्पकासे' इत्यादि, सर्वर्तुकैः-सर्वर्तुभाविभि पुष्पैः फलैश्च समृद्धिमत्, एवं रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते' त्यादि राजवर्णनं प्राग्वत्, 'धम्मिए' इतिधर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, तत्र सामान्यतोऽप्यधार्मिकः स्यादत आहअधर्मिष्टः-अथिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति। 'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकतेपरिभावयतीत्येवंशीलोऽधर्मप्रलोकी ‘अधम्मप्पजणणे' इतिअधर्मप्रकर्षणजनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोनधर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मेणैव वृत्ति-सर्वजन्तूनां यापनां कल्पयन् ‘हणछिंदभिंदापवत्तए' जहिं छिंद्धि भिंद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणि-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीव्रकोपावेशात् रौद्रो निस्तृशकर्मकारित्वात् साहसिकः परलोकभयाभावात् । _ 'उकंचणवंचणमायानियडिकूककवडसाइसंपओगबहुले' इति ऊर्ध्व कंचन-मुत्कंचनंहीनगुणस्य गुणोत्कर्षप्रतिपादनं वंचनं-प्रतारणं माया-परवंचनबुद्धि निकृति-बकवृत्या गलकर्त्तकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपटनेपथ्यभाषाविपर्ययकरणंएभिरुत्कञ्चनादिभि सहातिशयेन यःसंप्रयोगो-योगस्तेनबहुलः, अथवा सातिसंप्रयोगो नाम यः सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्रकृताङ्गचूर्णिकृता॥१॥ “सो होइ साइजोगो दव्वंज छुहिय अन्नदव्वेसुं। दोसगुणा वयणेसु यअत्थविसंवायणं कुणइ॥" इति। तत्संप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचनं नाम उत्कोचा, निकृतिवञ्चनप्रच्छादनकर्म सातिः-क्षान्त्यादिगुणाभावात् निर्मर्यादः परीपरिहारादिमर्यादालोपित्वात् निष्प्रत्याखयानपोषधोपवासः-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनायनिर्मूलाभावीकरहणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः। न च गुरूणां-पित्रादीनामगच्छतानामभ्युत्तिष्ठति-अभिमुखमूर्ध्वं तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुंक्ते, नापि स्वकस्यापिआत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्तिं प्रवर्तयति ॥ मू. (४९) तस्सणंपएसिस्स रन्नो सूरियकता नाम देवी होत्था, सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रन्ना साद्ध अनरत्ता अविरत्ता इढे सद्दे रूवे जाव विहरइ॥ वृ.तस्सणंपएसिस्सरन्नोसूरीकंतानामदेवी होत्था, सुकुमालपाणिपाया इत्यादिदेवीवर्णनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372