________________
३१६
राजप्रश्नीयउपाङ्गसूत्रम्-४८
नो विनयं पउंजइ, समण० सयस्सवि यणंजनवयस्स नो सम्मंकरभरवित्तिं पवत्तेइ ।।
वृ. केइयअद्धेजणवएहोत्था' केकयीनामार्द्ध-अर्धमात्रमार्यत्वेनेतिगम्यते, सहि परिपूर्णो जनपदः, केवलमर्धमार्थमर्द्ध चानार्यमार्येण चेह प्रयोजनमित्युर्द्धमित्युक्तं, जनपद आसीत, 'सव्वोउयफलसमिद्धे रम्मे नंदनवनप्पकासे' इत्यादि, सर्वर्तुकैः-सर्वर्तुभाविभि पुष्पैः फलैश्च समृद्धिमत्, एवं रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते' त्यादि राजवर्णनं प्राग्वत्, 'धम्मिए' इतिधर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, तत्र सामान्यतोऽप्यधार्मिकः स्यादत आहअधर्मिष्टः-अथिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति।
'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकतेपरिभावयतीत्येवंशीलोऽधर्मप्रलोकी ‘अधम्मप्पजणणे' इतिअधर्मप्रकर्षणजनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोनधर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मेणैव वृत्ति-सर्वजन्तूनां यापनां कल्पयन् ‘हणछिंदभिंदापवत्तए' जहिं छिंद्धि भिंद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणि-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीव्रकोपावेशात् रौद्रो निस्तृशकर्मकारित्वात् साहसिकः परलोकभयाभावात् ।
_ 'उकंचणवंचणमायानियडिकूककवडसाइसंपओगबहुले' इति ऊर्ध्व कंचन-मुत्कंचनंहीनगुणस्य गुणोत्कर्षप्रतिपादनं वंचनं-प्रतारणं माया-परवंचनबुद्धि निकृति-बकवृत्या गलकर्त्तकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपटनेपथ्यभाषाविपर्ययकरणंएभिरुत्कञ्चनादिभि सहातिशयेन यःसंप्रयोगो-योगस्तेनबहुलः, अथवा सातिसंप्रयोगो नाम यः सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्रकृताङ्गचूर्णिकृता॥१॥ “सो होइ साइजोगो दव्वंज छुहिय अन्नदव्वेसुं।
दोसगुणा वयणेसु यअत्थविसंवायणं कुणइ॥" इति। तत्संप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचनं नाम उत्कोचा, निकृतिवञ्चनप्रच्छादनकर्म सातिः-क्षान्त्यादिगुणाभावात् निर्मर्यादः परीपरिहारादिमर्यादालोपित्वात् निष्प्रत्याखयानपोषधोपवासः-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनायनिर्मूलाभावीकरहणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः।
न च गुरूणां-पित्रादीनामगच्छतानामभ्युत्तिष्ठति-अभिमुखमूर्ध्वं तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुंक्ते, नापि स्वकस्यापिआत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्तिं प्रवर्तयति ॥
मू. (४९) तस्सणंपएसिस्स रन्नो सूरियकता नाम देवी होत्था, सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रन्ना साद्ध अनरत्ता अविरत्ता इढे सद्दे रूवे जाव विहरइ॥
वृ.तस्सणंपएसिस्सरन्नोसूरीकंतानामदेवी होत्था, सुकुमालपाणिपाया इत्यादिदेवीवर्णनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org