SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मूलं-४९ ३१७ प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता - कथञ्चिद्विप्रियकरणेऽपि विरागाभावात् । मू. (५०) तस्स णं पएसिया रन्नो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव पडिरूवे । सेणं सूरियकंते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रज्रं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जनवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ । वृ. कुमारवर्णनं 'सुकुमालपाणिपाए' इत्याद जाव 'सुन्दरे' इति, अत्र यावत्करणात् ‘अहीनपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्य, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं । स च सूर्यकान्तो नाम कुमारो युवराजा अभूत्, प्रदेशिनो राज्ञो राज्यं राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं च बलं च - हस्त्यादिसैन्यं वाहनं च वेगसरादिकं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं पुरं च - नगरमन्तःपुरं च - अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्षमाणो - व्यापारयन् मू. (५१) तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते नामं सारही होत्था अड्डे जाव बहुजनस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेइ । पएसिस्स रन्नो बहुसु कज्जेसु य कारणेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सव्वड्डाणसव्वभूमियासु लद्धपञ्च्चए विदिन्नविचारे रज्जधुराचिंतए आवि होत्या । वृ. 'चित्ते नाम सारही होत्था अड्डे दित्त' इति आढयः - समृद्धो दोप्तः - कान्तिमान् वित्तःप्रतीतो यावत्करणात् 'विलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधनबहुजायरूवरयए विच्छड्डियपउरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजनस्स अफरिभूए' राजमान्यत्वात् स्वय च जात्यक्षत्रियत्वात्, 'सामभेयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोपप्रदानलक्षणानां नीतीनाम - र्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा - विमर्शस्तठप्रधानाम मतिरीहामतिस्तया विशारदो - विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या - अष्टाश्रुताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या- विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया - कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिकया - प्रायोयोविपाकन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः । प्रदेशिनो राज्ञो बहुषु कार्येषु - कर्तव्येषु कारणेषु - कर्त्तव्योपाये, कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु - राज्याचिन्तारूपेषु गुह्येषु बहिर्जनाप्रकाशनोयेषु रहस्येषु तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः - अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषुआवाहनविसर्जनादिरूपेषु आपृच्छनीयः - सकृत पृच्छनीयः प्रतिप्रच्छनीयः - असकृत् पृच्छनीयः, कमिति ?, यतोऽसौ ‘मेढी’ इति मेढी - खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं ग्राहयति तद्वद् यमालम्ब्य सकलं मन्त्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढि तथा प्रमाणं- प्रत्यक्षादि तद्वन् यस्यदद्दष्टानामर्थानामव्यभिचारित्वेन तत्रव मान्त्रणा प्रवृत्तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy