Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 287
________________ २८४ राजप्रश्नीयउपाङ्गसूत्रम् - ३४ णमिति वाक्यालङ्कारे, हेमजालादीनंनि जालानि, कचित् दामा इति पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिजलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लतासूत्रं च प्राग्वत् । सम्प्रति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति 'सेकेणट्टेणं भंते!' इत्यादि, सेशब्दोऽथशब्दार्थे, केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते- पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति, एवमुक्ते भगवानाह - गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु - वेदिकापार्श्वेषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि - अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु - स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराण स्तम्भपुटान्तराणि तेषु, सूचाषु- फलकसंबन्धविघटनाभावहेतुपाकास्थानीयासु तासामुपरीतितात्पर्यार्थः, 'सूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु तथा सूचीफलकेषु सूचिभि संबन्धिनो ये फलकप्रदेशास्तेऽप्यपचारात् सूचिकफलकानि तेषु सूचीनामधउपरिवर्त्तमानेषु तथा 'सूईपुटंतरेसु' इति द्वे सूच्यौ सूचीपुटै तदन्तरेषु पक्षाः पक्षबाह वेदिकैकदेशविशेशास्तेषु । बहुनि उत्पलानि गर्दभकानि पद्मानि - सूर्यविकासीनि कुमुदानि चन्द्रविकासीनि नलिनानि-ईषदरक्तानि पद्मानि सुभगानि - पद्मविशेषरूपाणि सौगन्धिकानि - कल्हाराणि पुण्डरीकाणि- सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि - पत्रशतकलतानि सहस्लपत्राणि - पत्रसहस्नोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच्च पृथगुपात्ते । एतानि सर्वरत्नमयानि 'अच्छा' इत्यादि विशेषणाजातं प्राग्वत्, 'महया वासिक्कछत्तसमाणाइं' इति महान्ति - महाप्रमाणाना वार्षिकाणि - वर्षाकाले पानीयरक्षार्थं यानि कृतानि वार्षिकाणि तानि चतानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! 'से एएणमट्टेण' मित्यादि, तदेतेन अर्थेन - अन्वर्थेन गौतम ! एवमुच्यते - पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं - पद्मवरा - पद्मप्रधाना वेदिका पद्मवरवेदिकेति । 'पउमवरवेइया णं भंते! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती स्यादशाश्वती, कथंचिन्नित्याकथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'से केणट्टेण 'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्रव्यार्थतया - द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते न पर्यायानू, द्रव्यं चान्वयि पिणामित्वात् अन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैरतत्तदन्यसमुत्पद्यमनवर्णविशेषरूपैः, एवं गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायं उपलक्षणमेतत् त्तदन्यपुद्गलविचटनोच्चटनैश्च अशाश्वती - - किमुक्तं भवति ? पर्यायारितकनयमतेन पर्यायाप्रधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात्, 'से एएमट्ठेण' मित्युद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात्, यौ तु द्दश्येते प्रतिवस्तु उत्पादविनाशौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372