________________
२८०
राजप्रश्नीयउपाङ्गसूत्रम्-३२
कदम्बकं प्राग्वत्।
___ 'तेसि ण'मित्यादि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावरशब्दात् मालिगृहकादिपरिग्रहः, 'बहूनि हंसासनानि' इत्यादि प्राग्वत् । 'तेसि णमित्यादि, तेषु वनखण्डेषु तत्र तत्र देशेतस्यैव देशस्यतत्रतत्रएकदेशेबहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकमण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्लीन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः,सएवलतानागलता, इह यस्य तिर्यक् तथाविधाशाखाप्रशाखावानप्रसृतासा लतेत्यभिधीयतेनागलतामयामण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफलावृक्षविशेषास्तुद्यक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-'सव्वरयणामया' इत्यादि प्राग्वत् । _ 'तेसिण'मित्यादि, तेषुजातिमण्पकेषुयावन्मालुमाण्डपकेषुजावशब्दात्यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः परज्ञप्तास्तद्यथा-अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठियाअप्पेगइया भद्दासणसंठियाअप्पेगइया पक्खा० अप्प आयंसासणसंठियाअप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठियाअप्पगइयापउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानिच वराणि-प्रदानानि शयनानि आसनानि च तद्वत संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कवचित 'मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ते च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसस्थिताश्चेति, आईणगरूय बूरनवनीयतूलफासमउया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत्।
तत्रतेषुउत्पादपर्वतादिगतहंसासनादिषुयावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमितिपूर्ववत्बहवः सूर्याभविमानवासिनोदेवा देव्यश्चयथासुखभासतेशेरते-दीर्घकायप्रसारणेन वर्तन्तेन तुनिद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्रायाअभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविंशतितुयटृति-त्वग्वर्त्तनं कुर्वन्ति, वामपार्श्वतः परावृत्यदक्षिणपाइँनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्बेनेति भावः, रमन्ते-रतिमाबघ्नन्ति ललन्ति-मनईप्सितं यथा भवतितथावर्तन्त इतिभावः, क्रीटन्ति-यथासुखमितस्ततोगमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति इत्येवं पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामितियोगः, अतएवपौराणानांसुचीर्णानां-सुचरितानां, इह सुचरतजनितं कर्मापि कार्ये कारणोपचारात् सुचरितं, ततोऽयं भावार्थः विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्यकारणोपचारात् सुपराक्रन्तिजनितानि सुपराक्रन्तानि इत्युक्तं, किमुक्तं भवति?
सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति,अत एव शुभानां शुभफलानां, इह किंञ्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org