SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७९ मूलं- ३२ वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रीयशरीरमारचयंति, 'नियइपव्वया' इति नियत्यानैयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, क्वचित् 'निययपव्वया' इति पाठः, तत्र नियताः - सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारयेनैव वैक्रीयशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगईपव्वया' इति जगतीपर्वतंकाः पर्वतविशेषाः, दारुपर्वतका - दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपाःस्फाटिका : मंडपाः । , उक्तं च जीवाभिगममूलटीकायां - "दगमण्डपाः - स्फाटिका मण्डपा' इति, एवं दकमञ्चकाः दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः केचित् 'खुड्डा खुड्ड' त्ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यतुर तु पक्षिण आगत्यात्मानमन्दोयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र २ प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूता ? इत्याह- 'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसुण' मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि - उच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि - शय्यारूपाणि भद्रासनानि येषामघो भागे पीठिकाबन्धः पक्ष्यासनानि येषामघो भागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामघो भागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा । 'हंसे कोंचे गरुडे उण्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे ॥ 119 11 इति, तानि सर्वाण्यपि कथंभूतानित्यत आह- 'सव्वरयणामयाई’त्यादि प्राग्वत् । ‘तेसि णमित्यदि, तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलि - वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, ' अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, प्रेक्षणकगृहाण यत्रागत्य प्रेक्षणकानि विदघति निरीक्षन्ते च, मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनकं कुर्वन्ति । 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भहाकाराणि 'मोहनघराइ'न्तिमोहनं-मैथुनसेवा 'रिमियं मोहनरयाई' इति नाममालावचनात् तठप्रधानानि गृहकाणि मोहनगृहकाणि, वासभवनानीति भावः, शालागृहकाणि - पट्टशालाप्रधानानि, जालगृहकाणिगवाक्षयुक्तानि गृहकाणि, कुसुमगृहकाणि - कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणिचित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि - गीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणिआदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह- 'सव्वरयणामया' इत्यादि विशेषण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy