SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ राजप्रश्नीयउपाङ्गसूत्रम्-३२ ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतुःकोणाः, एतच्च विशेषणं वापीः कूपांश्चप्रतिद्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात्नशेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवप्रः-केदारो जलस्थानंतत्र गम्भीरं-अलब्धस्ताधं शीतलं जलंयासुताआनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, संछनपत्तभिसमुणालाउ' इति संछन्नानिजलेनान्तरितानि पत्रबिसमृणालानि यासुताः संछन्नपत्रविसमृणालाः, इह विसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः तथाबहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथाषट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथाअच्छेन-स्वरूपतः स्फटिकवत्शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणंचात्र॥१॥ 'घणपडिहत्य गयणं सराइ नवसलिलउद्धमायाई। अइरेइयं मह उण चिंताए मण तुहं विरहे ।।' इति । भ्रमन्तोमत्स्यकच्छपायत्रताः परिहत्यभ्रमनमत्स्यकच्छपाः, तथाअनेकैःशकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः प्रत्येकंप्रत्येकं प्रतिप्रत्येकमत्राभिमुखे प्रतिशब्दस्ततोवीप्साविवक्षायांपश्चात्प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकंप्रत्येकंवनखण्डपरिक्षत्रिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिढिार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकंयासांतावारुणोदकाः, अप्येककाःक्षीरमिव उदकंयासांताः क्षोरोदकाः, अप्येकका धृतमिव उदकं यासांता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः, अप्येककाः स्वाभाविन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत्। 'तासि ण मित्यादि, तासां क्षुल्लिकानां वापीनां यावदिबलपङ्क्तीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषांचत्रिसोपानप्रतिरूपकाणामय-वक्ष्यमाण-एतद्रूपः अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररलमया वंगा इत्यादि प्राग्वत्।। 'तेसिणं' तेषांत्रिसोपानप्रतिरूपकाणांप्रत्येकंतोरणानिप्रज्ञप्तानि, तोरणवर्णकस्तुनिरवशष यानविमानवद्भावनीयो यावत्बहवः सहस्रपत्रहस्तकाइति, तासिण'मित्यादि, तासांक्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पतिपर्वता यत्रागत्य बहवः सूर्याभिविमानवासिनो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy