Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६४
राजप्रश्नीयउपाङ्गसूत्रम् - २८
पिनद्धानि - आविद्धानि यासां ता नानामाल्यपिनद्धाः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुट्ठिगिज्झसुमज्झाओ' इति मुष्टिग्राह्यं सुष्ठु - शोभनं मध्य-मध्यभागो यासां तास्तथा, 'आमेलगजमलजुगलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओहराओ' पीनं- पीवरं रचितं संस्थितं-संस्थानं यताभ्यां तौ पीनरचितसंस्थानौ आमेलक:- आपीडः शेखरक इत्यर्थः ।
तस्य यमलयुगलं- समश्रेणिकं यद्युगलं तद्वत् वर्त्तितौ-वद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो - नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः - कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे - 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसरियाओ' मृदवः - कोमला विशदा - निर्मलाः प्रशस्तानि - शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लितं' संवृतमग्रं येषां ते संवेल्लिताग्राः शिरोजाः - केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईषत् -मनाक अशोकवरपादवे समुपस्थिताः- आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा 'वामहत्यग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः - शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः ।
‘ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे 'ति ईषत् - मनाक् अर्द्ध- तिर्यक् वलितमक्षि येषु कटाक्षरूपेण चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनाना मनांसि 'चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्रमाणीओ विव' 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन - आलोकनेन येलशाः - संश्लेषस्तैः खद्यमान इव, किमुक्तं भवति ? - एवंनामानस्ति (म)र्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् ।
'चंदाननाओ' इति चन्द्र इवाननं मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्अष्टमीचन्द्रसमानं ललाटं यासां तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोनंसुभगकान्तिमत् दर्शनम् - आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विज्जुघणमरिचिसूरदिप्पं ततेयअहिययरसन्निकासातो' इति विद्युतो ये घना - बहलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दीप्तं - तेजस्तस्मादपि अधिकतरः सन्निकाशः - प्रकाशो यासां तास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरूवाओ चिट्ठति' इति प्राग्वत् ॥
मू. (२९) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासि णं घंटाण इमेयारूवे वन्नावासे पन्नत्ते, तंजहा -
जंबूणयामईओ घंटाओ वयरामयाओ लालाओ नानामणिमया घंटापासा तवणिज्जामइयाओ संखलाओ रययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372