Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 266
________________ मूलं - २८ २६३ वाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणिघटाजालानि - क्षुत्रघण्टासमूहास्तैः परित्रिप्ताः - सर्वतो व्याप्ताः 'अब्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनस्पृष्टाः तिरियसुपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यक् - मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति अधः - एतदेव व्याचष्टे - ' पन्नगार्द्धसंस्थान - संस्थिता' अधःपन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत् । 'महया' इति अतिशयेन महान्तो गजदन्तसमाना- गजदन्ताकाराः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु बहवे किण्हसुतवद्धा' तेषु नागदन्केषु बहवः कृष्णमूत्रवद्धा 'वग्ध्घरिय' इति अवलम्बिता माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकापा एवं लोहितहारिद्रशुक्लसूत्रवद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः - तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवन्नपयरगसंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण्णमण्डितानि सुवणप्रतरमाण्डितानि । 'नानाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानांच विविधा - विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव २ उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्रमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । 'तेसि णं नागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्तजालंतरुसियहेमजालववखजालसिंखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु' । इत्यादि, तेषु नागदन्तकुषे बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु वररजतमयेषु सिक्ककेषु बहवो बह्वयो वैडूर्यमय्य- वैडूर्यरत्नात्मिका धूपघटिकाः 'कालागुरुपवरकंकुदुरुक्कतुरुक्क घूवमघमघंते' त्यादि प्रगाव्त नवरं 'घाणमणनिव्वुइकरेण' मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण । 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विघातो-द्विप्रकारायां नैषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाटयः प्रज्ञप्ताः, ताश्च शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः 'नानाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानविधरागामि तानि वसनानि - वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि - पुष्पाणि For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372