________________
मूलं - २८
२६३
वाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणिघटाजालानि - क्षुत्रघण्टासमूहास्तैः परित्रिप्ताः - सर्वतो व्याप्ताः 'अब्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनस्पृष्टाः तिरियसुपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यक् - मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति अधः - एतदेव व्याचष्टे - ' पन्नगार्द्धसंस्थान - संस्थिता' अधःपन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत् ।
'महया' इति अतिशयेन महान्तो गजदन्तसमाना- गजदन्ताकाराः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु बहवे किण्हसुतवद्धा' तेषु नागदन्केषु बहवः कृष्णमूत्रवद्धा 'वग्ध्घरिय' इति अवलम्बिता माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकापा एवं लोहितहारिद्रशुक्लसूत्रवद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः - तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवन्नपयरगसंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण्णमण्डितानि सुवणप्रतरमाण्डितानि ।
'नानाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानांच विविधा - विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव २ उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्रमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते ।
'तेसि णं नागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्तजालंतरुसियहेमजालववखजालसिंखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु' । इत्यादि, तेषु नागदन्तकुषे बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु वररजतमयेषु सिक्ककेषु बहवो बह्वयो वैडूर्यमय्य- वैडूर्यरत्नात्मिका धूपघटिकाः 'कालागुरुपवरकंकुदुरुक्कतुरुक्क घूवमघमघंते' त्यादि प्रगाव्त नवरं 'घाणमणनिव्वुइकरेण' मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण ।
'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विघातो-द्विप्रकारायां नैषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाटयः प्रज्ञप्ताः, ताश्च शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः 'नानाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानविधरागामि तानि वसनानि - वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि - पुष्पाणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International