SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ राजप्रश्नीयउपाङ्गसूत्रम् - २८ पिनद्धानि - आविद्धानि यासां ता नानामाल्यपिनद्धाः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुट्ठिगिज्झसुमज्झाओ' इति मुष्टिग्राह्यं सुष्ठु - शोभनं मध्य-मध्यभागो यासां तास्तथा, 'आमेलगजमलजुगलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओहराओ' पीनं- पीवरं रचितं संस्थितं-संस्थानं यताभ्यां तौ पीनरचितसंस्थानौ आमेलक:- आपीडः शेखरक इत्यर्थः । तस्य यमलयुगलं- समश्रेणिकं यद्युगलं तद्वत् वर्त्तितौ-वद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो - नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः - कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे - 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसरियाओ' मृदवः - कोमला विशदा - निर्मलाः प्रशस्तानि - शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लितं' संवृतमग्रं येषां ते संवेल्लिताग्राः शिरोजाः - केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईषत् -मनाक अशोकवरपादवे समुपस्थिताः- आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा 'वामहत्यग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः - शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः । ‘ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे 'ति ईषत् - मनाक् अर्द्ध- तिर्यक् वलितमक्षि येषु कटाक्षरूपेण चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनाना मनांसि 'चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्रमाणीओ विव' 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन - आलोकनेन येलशाः - संश्लेषस्तैः खद्यमान इव, किमुक्तं भवति ? - एवंनामानस्ति (म)र्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् । 'चंदाननाओ' इति चन्द्र इवाननं मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्अष्टमीचन्द्रसमानं ललाटं यासां तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोनंसुभगकान्तिमत् दर्शनम् - आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विज्जुघणमरिचिसूरदिप्पं ततेयअहिययरसन्निकासातो' इति विद्युतो ये घना - बहलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दीप्तं - तेजस्तस्मादपि अधिकतरः सन्निकाशः - प्रकाशो यासां तास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरूवाओ चिट्ठति' इति प्राग्वत् ॥ मू. (२९) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासि णं घंटाण इमेयारूवे वन्नावासे पन्नत्ते, तंजहा - जंबूणयामईओ घंटाओ वयरामयाओ लालाओ नानामणिमया घंटापासा तवणिज्जामइयाओ संखलाओ रययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy