Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२५९
मूलं-२७ योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि ३९५२८४८ किञ्चिद्विशेषाधिकानि ‘परिक्षेपेण' परिधिना, इदं च परक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेत, सुगमत्वात् । 'सेणंएगेण मित्यादि, तद्विमानकमेकेन प्राकारेण सर्वतः-सर्वासुदिक्षुसमहोइ' इति करणवशात् स्वयमानेत, सुगम-त्वात् । ‘से णं एगेण' मित्यादि, तद्विमानमेकेन प्रकाराण सर्वतः-सर्वासु दिक्षु समनन्ततः-सामस्त्येन परिक्षिप्तं ।
'सेणंपागारे' इत्यादि, सप्राकारःत्रीणियोजनशतानिऊर्ध्वमुच्चैस्त्वेन मूले एवं योजनशतं विष्कम्भेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनत्रिभागस्य विष्कम्भतम्लुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषड्भागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजन-मात्रविरतारात्मकत्वात्, अत एव गोपुच्छसंस्थानसंस्थितः, 'सव्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्।
____ से ण पागारे' इत्यादि, स प्राकारो 'नानाविहपंचवन्नेहिं' इति नानाविधानि च तानि पञ्चवर्णानिच नानाविधपञ्चवर्णानि तैः, नानाविधत्वंच पञ्चवणपिक्षया द्रष्टव्यंकृष्णादिवर्णतारतम्यापेक्षया वा,पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, ‘ते णं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दैर्येणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन ‘सव्वरयणामया' इत्यादि विशेषणजातं प्राग्वत्।
'सूरियाभस्स ण'मित्यादि, एकैकस्यां बाहायां द्वारसहसमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानिचद्वाराणि प्रत्येकंपञ्चयोजनशतान्यूज़उच्चैस्त्वेन अर्द्धतृतीयानियोजनशतानि विष्कम्भतः ‘तावइयं चेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः ‘सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्गरत्नमयत्वात् ‘वरकणगथूभियागा' इति वरकनका-वरकनकमयी स्तूपिका-शिखरं येषांतानितथा, 'ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तचित्ता खंभुग्गयवरवयवेइयापरिगयाभिराणा विज्जाहरजमलजुयलजंतजुत्ताविवअच्चीसहस्समालिणीया स्वगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानव
द्भावनीयं, 'वन्नो दाराणंतेसिंहोइ' इति तेषां द्वाराणां वर्ण-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति
'तंजहे त्यादि, तद्यथा-'वइरामया निम्मा' इति नेमानाम द्राणां भूमिभागादूर्द्धनिष्कमन्तः प्रदेसास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यमात्रापिद्रष्टव्यं, 'रिट्ठामया पइट्टाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः जायरूवोवचियपवरपंचवन्न(वर)मणिरयणकुट्टिमतला' जातरूपेणसुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्गमणिभि-चन्द्रकान्तादिभि रत्नैः-कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं येषां ते तथा 'हंसगब्भमया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया
For Private & Personal Use Only
Jain Education International
For Priva
www.jainelibrary.org
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372