Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 42
________________ १२७ मूलं-१५ भवेयालवे सिया?,नो इणढे समढे। तेणं सुकिल्ला मणी एतो इसतराए चेव जाव वन्नेणं पन्नत्ता। वृ.सेजहानामए इत्यादि, तत्सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने 'नामे तिशिष्यामन्त्रणे, “ए' इति वाक्यालङ्कारे, 'आलिंगपुकखरे इ वेति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रयते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाःसमुच्चये, मृदङ्गो लोकप्रतीतो मर्दलसतस्य पुष्करंमृदङ्गपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्व वृत्या उत्तानीकृतार्द्धकपित्याकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागोन समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्ध, “उरब्मचम्मे इवे'त्यादि । अत्र सर्वत्रापि अनेगसंकुकीलसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषांप्रत्येकंचमअनेकैःशङ्कप्रमाणैः कीलकसहन, महद्भिर्हि कीलकैस्ताडितंप्रायोमध्येक्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमास्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'नानाविहपंचवन्नेहिं मणीहिं उवसोभिते' नानाविधाः-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह 'आवडे' इत्यादि । आवर्तादीन मणीनां लक्षणानि, तत्रावतः प्रतीतः एकस्यावतस्य प्रत्यभिमुख आवतः प्रत्यावर्त्तः श्रेणि-तथाविधबिन्दुजा पङ्कितस्तस्याश्च श्रेणेर्याच निर्गताअन्या श्रेणि सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषी लोकाप्रत्येतव्यौ वर्द्धमानकं-शरावसम्पुटंमत्स्यकाण्डकमकरकाण्डकेप्रतीते जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोका- द्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्याःविच्छित्या चित्रम्-आलेखोयेषुते आवर्तप्रत्यावर्त्तश्रेणियप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमान-कमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्पत्रसागरतरङ्गवासन्तीलतापद्मलताभक्ति-चित्रास्तैः, किमुक्तं भवति? । ___आवादिलक्षणोपेतैः, तथासच्छायैः सती-शोभनाछाया-निर्मलत्वरूपायेषांतेसच्छायाः, तथा सती-शोभना प्रभा-कान्तिर्येषां ते सप्रभाः तैः, ‘समरीइएहिं' इति समरीचिकैः-बहिर्विनिर्गतकिरणजालसहितैः सोद्योतैः-बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयः पञ्चवर्णमणिभिरुपशोभितः, तानेवपञ्चवर्णानाह 'तंजहा-कण्हेहिं' इत्यादि सुगमं, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये 'णमिति वाक्यालझारे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ । तेषां णमिति पूर्ववत्, अयम् अनन्तरमुद्दिश्यमान एतद्रूपः अनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'सेजहानामए' इत्यादि, सयथा नाम 'जीमूत'इति जीमूतोवलाहकः, सचेहप्रावृटप्रारम्भसमये जलमृतोवेदितव्यः, तस्यैवप्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमान्तरापेक्षया समुच्चये, एवं सर्वत्र, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184